हे चतुर, वद उत्तरम् !
|
अर्धचन्द्रवदाकारं स्त्रीनामाथ च त्र्यक्षरम् ।
नकारादि रिकारान्तं यो जानाति स पण्डितः ॥
अर्धचन्द्राकारयुक्तः स्त्रीलिङ्गशब्दः अयम् अक्षरत्रयेण युक्तः । आदिमवर्णः नकारः,
अन्तिमश्च भवति रिकारः । इदं यः जानीयात् सः पण्डितः । ’नेवरी’ इत्येतत्
किन्ञ्चन खाद्यवस्तु । महाराष्ट्रे अधिकतया प्रसिद्धम् । ’कर्जीकायि’ ’सुरळीपुरि’
इत्यादिभिः नामभिः अपि प्रसिद्धम् ।
|
|
|
|
|
कृषिवाणिज्यहीनानां दीनानां बुद्धिपौरुषैः ।
धर्मवादं विना केन भवेदुदरपूरणम् ॥
लोके कृषिवाणिज्यादिषु निपुणाः स्ववृत्त्या आनन्देन जीवन्ति । तद्रहिताः अपि यदि बुद्धिमन्तः स्युः ते अपि आनन्देन जीवन्ति । किन्तु केचन कृषिवाणिज्यादिषु अनिपुणाः, बुद्धिपौरुषेण हीनाः च भवन्ति । ते कथं जीवन्ति ? ते तु धर्मोपदेशव्याजेन जीवन्ति ।
सत्यं खलु एतत् ? धर्मोपदेशकाः सर्वे वैराग्यवन्तः, धर्मैकसक्ताः वा न भवन्ति । केचन उपजीविकायै एव धर्मोपदेशम् अवलम्बितवन्तः भवन्ति । अस्माकं देशे धर्मोपदेशकानां विषये महती श्रद्धा भवति सामान्यानाम् । अतः तेषां जीवनं प्रचलति निरातङ्कम् ।
|
|
|
|