विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७८३ पृष्ठानां सङ्ग्रहः विद्यते ।
गुरुवासरः, नवेम्बर् २१, २०२४; समयः- ०८:५५ UTC
अग्ने नय सुपथा राये ॥ (यजुर्वेदः ५-३६)
हे जगदग्रणीः ! सौभाग्यप्राप्तये सन्मार्गे नीयताम् ।
राजन् ! कमलपत्राक्ष ! तत्ते भवतु चाक्षयम् । आसादयति यद्रूपं करेणुः करणैः विना ॥ कमलमिव नेत्रयुक्त राजन्, करेणोः (हस्तिन्याः) करणानि (इन्द्रियाणि) यदि न भवेयुः तर्हि यत् रूपं प्राप्येत तत् भवतः अक्षयं भवतु । करेणुः इत्यस्मिन् शब्दे क् र् ण् इत्येतान् वर्णान् यदि निष्कासयेम तर्हि अवशिष्यते - अ + ए + उः । (सन्धिः कार्यः)
उत्तरम्
सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि । सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥ जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिइषकेण सर्वदा ‘एवं भवति, एवं वा भवति’ इति द्विविधम् उत्तरं वक्तव्यम् । तथैव अमुककाले अमुककाले वा भवति इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh