Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
सामग्री पर जाएँ

अयस्कान्तचिकित्सा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयस्कान्तचिकित्सा

अयस्कान्तचिकित्सा (Magnet therapy) चिकित्सापद्धतिषु अन्यतमा । अस्याः चिकित्सायाः द्वे पद्धती वर्तेते । एका सार्वदैहिकचिकित्सा अपरा स्थानिकचिकित्सा इति । सार्वदैहिकचिकित्सायां करतलयोः औषधादिलेपनेन चिकित्सा क्रियते । स्थानिकचिकित्सायां तु रोगग्रस्ते भागे लेपयन्ति इति विशेषः।

सार्वदैहिकचिकित्सा

[सम्पादयतु]

सार्वदैहिकचिकित्सायां उत्तरदक्षिणध्रुवयोः अयस्कान्तयुगलम् स्वीकृत्य चिकित्सां कुर्वन्ति । शरीरस्य विद्युतीयसंबन्धाधारेण उत्तरध्रुवस्य अयस्कान्तं शरीरस्य दक्षिणभागे संस्थाप्य चिकित्सां कुर्वन्ति । दक्षिणध्रुवस्य अयस्कान्तं शरीरस्य वामभागे, पृष्ठभागे, अधोभागे च संस्थाप्य चिकित्सां कुर्वन्ति । उक्तनियमाः अस्यां चिकित्सायाम् एव प्रयोगार्हाः भवन्ति । नियमेषु व्यत्यासो कदापि न भवति । किन्तु स्थानिकचिकित्सायां केवलं रोगादीनां संक्रमणे, पीडायाम्, शोथे च अवधानं भवति । उत्तमपरिणामार्थं रोगः अथवा रोगस्य संक्रमणं नाभेः उपरि यदि भवति तर्हि अयस्कानयुगलम् करतलयोः स्थापयन्ति । रोगः नाभेः अधोभागे चेत् अयस्कान्तं करपृष्टयोः (भागे) स्थापयन्ति ।

स्थानिकचिकित्सा

[सम्पादयतु]

अस्यां चिकित्सायां रोगः यत्र भवति तस्मिन् स्थाने एव अयस्कान्तं स्थापयन्ति । रोगस्य तीव्रतानुगुण्येन एकम्, द्वौ त्रीन् वा अयस्कान्तान् स्थापयन्ति । उदाहरणार्थं श्वासरोगस्य ग्रीवारोगस्य च तीव्रतायां सत्याम् अयस्कान्तौ स्थाप्येते । विशिष्य रोगस्य प्रमाणादिकं दृष्ट्वा अयस्कातान् स्थापयन्ति । स्थानिकरोगसंक्रमणे अपि अस्याः चिकित्सायाः उपयोगं कुर्वन्ति । रोगाणां कारणेन अङ्गुलिषु यदा वेदना आयाति तदा अङ्गुलीयकं स्थापयन्ति । तेन वेदना अपगता भवति ।

चिकित्सायाः लाभः

[सम्पादयतु]

नरनारीणां गुणकारिणी चिकित्सा एषा । अस्यां चिकित्सायां वयोनिर्बन्धः नास्ति । कस्मिंश्चित् प्रदेशे, सर्वेषु समयेषु , शरीरस्य सर्वेषु अङ्गेषु सरलतया अयस्कान्तचिकित्सां कर्तुं (चिकित्सितुं) शक्यते । अयस्कान्तेन रक्तसञ्चलनं सुकरं भवति । किञ्चित् कालं यावत् शरीरे अयस्कान्तं स्थाप्यते चेत् शरीरे उष्णतायाः वृद्धिः भविष्यति । अनेन कारणेनैव शरीरे दुर्बलतायाः नाशः भविष्यति । एवं शक्तेः वर्धनमपि भविष्यति । अतः रोगी रोगमुक्तः भविष्यति । प्रत्येकस्य अङ्गस्य पीडा, शोथः च न्यूनं भविष्यति । पौनःपुन्येन चिकित्सा यदि क्रियते तर्हि रोगस्य समूलनाशः भविष्यति । केषुचित् रोगेषु द्वितीयवारम् अयस्कान्तचिकित्सायाः आवश्यकता न भवत्येव । चिकित्सार्थम् पूर्वसन्नाहः अनपेक्षितः । एकमेव अयस्कान्तं बहूनां रोगाणां चिकित्सायै उपयोक्तुं शक्यते ।

अयस्कान्तस्य चयनम्

[सम्पादयतु]

अयस्कान्तस्य चयनम् अस्यां चिकित्सायां बहुमुख्यं भवति । शरीरस्य अङ्गानुगुणम् अयस्कान्तस्य चयनं करणीयं भवति । उदाहरणार्थं नेत्रे यदि अयस्कान्तः स्थापनीयः तर्हि वृत्ताकारे विद्यमानाः लघु अयस्कान्ताः अपेक्षन्ते । अतः एकस्य एव आकारस्य अयस्कान्ताः चिकित्सार्थम् अनुपयुक्ताः भवन्ति । नेत्रे एवं हृदयभागे भाररहितस्य अयस्कान्तस्य उपयोगः करणीयः भवति ।

चिकित्सानियमाः

[सम्पादयतु]

चिकित्साकरणसमये रोगी भूमौ उत लोहपीठेषु शयनम् उपवेशनं वा न करणीयम् । अयस्कान्तस्य उत्तरध्रुवः उत्तरदिशि एवं दक्षिणध्रुवः दक्षिणदिशि भवेत् इति नियमः अस्ति । अनेन अयस्कान्तस्य पृथिव्याः च क्षेत्रसमानता भवति, अयस्कान्तः प्रभलश्च भवति । भिन्नयोः ध्रुवयोः अयस्कान्तयोः उपयोगः यदा क्रियते तदा रोगी पश्चिमाभिमुखी स्यात् ।

अयस्कान्तचिकित्सायाः अवधिः

[सम्पादयतु]

स्थानिकचिकित्सा सार्वदैहिकचिकित्सा च १० निमेषतः ३० निमेषपर्यन्तं क्रियते । अयं क्रमः उत्तमः इति । वृद्धेभ्यः अजीर्णे, सन्धिशोथे च सप्ताहं यावत् १० निमेषाः एव चिकित्सा देया । क्रमेण ३० क्षणपर्यन्तं वर्धनीयम् । अन्येषु केषुचित् रोगेषु एषः एव क्रमः अनुसर्तव्यः भवति । मस्तिष्कादि सूक्ष्मेषु अङ्गेषु अधिकशक्तियुतानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अस्याः चिकित्सायाः विपरिणामाः न भवन्ति ।

नियमाः

[सम्पादयतु]
  1. अयस्कान्तस्य चिकित्सायाः अनुक्षणं पयोहिमं, शीतलपानीयञ्च न सेवनीयम् । अन्यथा अस्याः चिकित्सायाः प्रभावः न भवति ।
  2. भोजनोत्तरं घण्टाद्वयं यावत् चिकित्सा न स्वीकरणीया । अन्यथा वमनादिदोषाः भवन्ति ।
  3. गर्भिणीषु स्त्रीषु अधिकशक्तियुक्तानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अल्पशक्तियुतानाम् अयस्कान्तानाम् उपयोगः करणीयः । किन्तु, गर्भाशयात् दूरे स्थापनीयम् । #शक्तियुक्तानाम् अयस्कान्तानां भिन्नयोः ध्रुवयोः सम्पर्कः न करणीयः ।
  4. चिकित्सासमये आभरणानि न भवेयुः। हस्तघटी, विद्युत् उपकरणानि च न भवेयुः। अन्यथा अयस्कन्तस्य शक्तिः क्षीणा भवति ।
  5. भूमौ अयस्कान्ताः न स्थापनीयाः ।
  6. प्रातः स्नानानन्तरं चिकित्सा देया । चिकित्सायाः समनन्तरं होराद्वयं यावत् स्नानं न करणीयम् ।
  7. लोहपेटिकासु अयस्कान्ताः न स्थापनीयाः ।
  8. अयस्कान्तस्य जलस्पर्शः न भवेत् । अन्यथा, अयस्कान्तस्य अयस्किट्टं भवति ।
  9. चर्मरोगस्य चिकित्साकाले अयस्कान्तस्य चर्मणः च साक्षात् स्पर्शः न भवेत् । चर्म अयस्कान्तयोः मध्ये सूक्ष्मवस्त्रस्य उपयोगः करणीयः ।
  10. चिकित्सासमये शरीरे अयस्कान्तस्य भारः भवेत् इति नास्ति । कासुचित् चिकित्सासु शरीरे अयस्कान्तस्य भारं स्थापयन्ति ।
  11. ’अयस्कान्तजल’नामके अध्याये उक्तानां नियमानां पालनं करणीयम् ।

बाह्यानुबन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अयस्कान्तचिकित्सा&oldid=457439" इत्यस्माद् प्रतिप्राप्तम्