Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                
सामग्री पर जाएँ

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ८/सायणभाष्यम्१

विकिस्रोतः तः

1.8.4

सायणभाष्यम्

1.8.4
अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुं मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुं अग्नये । अनीकवत इत्यनीक-वते। पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । साकम् । सूर्येण । उद्यतेत्युत्-यता । मरुद्भ्य इति मरुत्-भ्यः । सांतपनेभ्य इति साम्-तपनेभ्यः । मध्यंदिने। चरुम् । मरुद्भ्य इति मरुत्-भ्यः । गृहमेधिभ्य इति गृहमेधि-भ्यः । सर्वासाम् । दुग्धे । सायम् । चरुम् ।

तृतीये वरुणप्रघासाख्यं द्वितीयं चातुर्मास्यपर्वोक्तम् । चतुर्थपञ्चमषष्ठेषु साकमेधाख्यं तृतीयं पर्वोच्यते । तच्च पर्व दिनद्वयेऽनुष्ठेयम् । तदाहाऽऽपस्तम्बः-" ततश्चतुर्षु मासेषु पूर्वस्मिन् 'पर्वण्युपक्रम्य द्वयहं साकमेधैर्यजते" (आपश्रौ ८.९.१) इति ॥
अग्नय इति ॥ तत्र प्रथमदिने कर्तव्यानि त्रीणि हवींषि विधत्ते-'अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुं मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्' इति ॥ अनीकवते सैन्यवते । उद्यता सूर्येण साकम् इत्युदयकालविधिः । सम्यक् तपनं संतपनं तत्संबन्धिनः सांतपना अनिष्टविनाशिन इत्यर्थः । मेधो यज्ञः । गृहं च मेधश्च तदुभयवन्तो २५ गृहमेधिन उभयपालका इत्यर्थः । सर्वासां यजमानस्य यावत्यो गावः सन्ति तावतीनाम् । विहितास्विष्टिषु प्रथमेष्टिदेवतागुणं प्रशंसति-" देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् । ममेयमनीकवती तनूः । तां प्रीणीत । अथासुरानभिभविष्यथेति । ते देवा अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निरवपन् । सोऽग्निरनीकवान्त्स्वेन भागधेयेन प्रीतः । चतुर्धाऽनीकान्यजनयत । ततो देवा अभवन् । पराऽसुराः। यदग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति। अग्निमेवानीकवन्तꣳ स्वेन भागधेयेन प्रीणाति। सोऽग्निरनीकवान्त्स्वेन भागधेयेन प्रीतः । चतुर्धाऽनीकानि जनयते" (तैब्रा १.६.६) इति । चतसृष्वपि दिक्ष्वसुरानवरोद्धुं चतुर्विधानि सैन्यानि ॥ सूर्योदयकालं प्रशंसति-" असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । साकꣳ सूर्येणोद्यता निर्वपति । साक्षादेवास्मा अनीकानि जनयति" (तैब्रा १.६.६) इति ।
उष्णत्वादादित्यस्याग्नित्वम् । उत्साहोपेतयोद्धृवत् सर्वतस्त्वरया प्रसराद्रश्मीनामनीकत्वम् ॥ द्वितीयाया . इष्टर्देवताया गुणं प्रशंसति-" तेऽसुराः पराजिता यन्तः। द्यावापृथिवी उपाश्रयन् । ते देवा मरुद्भ्यः सांतपनेभ्यश्चरुं निरवपन् । तान् द्यावापृथिवीभ्यामेवोभयतः समतपन् । यन्मरुद्भ्यः सांतपनेभ्यश्चरुं निर्वपति । द्यावापृथिवीभ्यामेव तदुभयतो यजमानो भ्रातृव्यान्त्संतपति" (तैब्रा १.६.६) इति । तानसुरान् द्यावापृथिवीभ्यामेव कृत्स्नयोरपि द्यावापृथिव्योरुभयतोऽसुराणामधस्ताच्चोपरिष्टाच्च समतपन् प्रहाराद्युपद्रवेण संतापितवन्तः ॥ कालं प्रशंसति--" मध्यंदिने निर्वपति । तर्हि हि तेक्षिणष्ठं तपति" (तैब्रा १.६.६) इति । तर्हि मध्याह्नकाले तेक्ष्णिष्ठमतिशयेन तीक्ष्णं यथा भवति तथा सूर्यस्तपति, हि प्रसिद्धमेतत् ॥ चरु प्रशंसति-" चरुर्भवति । सर्वत एवैनान्त्संतपति" (तैब्रा १.६.६) इति । चरुपाकभाण्डस्य सर्वतस्तप्यमानत्वाच्छत्रूणामपि सर्वतः संतापः ॥ तृतीयेष्टेर्देवताविशेषणं प्रशंसति- " ते देवाः श्वोविजयिनः सन्तः । सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् । आशिता एवाद्योपवसाम । कस्य वा हेदम् । कस्य वा श्वो भवितेति । स शृतोऽभवत् । तस्याहुतस्य नाऽऽश्नन् । न हि देवा अहुतस्याश्नन्ति । तेऽब्रुवन् । कस्मा इमꣳ होष्याम इति । मरुद्भ्यो गृहमेधिभ्य इत्यब्रुवन् । तं मरुद्भ्यो गृहमेधिभ्योऽजुहवुः । ततो देवा अभवन् । पराऽसुराः। यस्यैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति" (तैब्रा १.६.६) इति । ते देवा अस्मिन् दिने प्रथमेष्ट्या सैन्यानि संपाद्य द्वितीयेष्ट्या विरोधिनोऽसुरान् सर्वतः संतप्य पुनः परेद्युरपि जेष्याम इत्यभिप्रेत्य गृहमेधीयं निरुप्येत्थं विचारितवन्तः । इदं हविरद्य कस्य वा भवति कस्य वा श्वो भविष्यतीति न ज्ञायते । तस्माद्वयं सह भुक्तवन्त एवाग्निसमीपे वसामेति । एतावति विचारकाले स चरुः पक्वोऽभूत् । तदानीं देवा अहुतत्वात् तं चरुं नैवाशितवन्तः। यस्माद्देवाः क्वाप्यहुतं नाश्नन्ति तस्माद्युक्तमेवैतत् । ततस्ते देवाः परस्परं विचारितवन्तः । किमिति ? कस्मै देवायेमं चरुं होष्यामि इति । ततो निश्चित्य गृहमेधिभ्यो हुत्वा विजयं प्राप्ता असुराश्च पराभूताः॥ अस्मिन् कर्मणि 'आज्यभागौ यजति' इत्यादिना कानिचिदङ्गानि विधास्यन्ते । तत्र यावदुक्ताङ्गोपेतमपूर्वमिदं कर्म न तु दर्शपूर्णमासविकृतिरिति जैमिनिर्विचारितवान् ततोऽर्थप्राप्तः सामिधेन्याद्यभावः। तमिमं विस्पष्टयितुमनुवदति-" यद्वै यज्ञस्य पाकत्रा क्रियते । पशव्यं तत् । पाकत्रा वा एतत् क्रियते । यन्नेध्माबर्हिर्भवति । न सामिधेनीरन्वाह । न प्रयाजा इज्यन्ते । नानूयाजाः । य एवं वेद । पशुमान् भवति" (तैब्रा १.६.६) इति । यज्ञस्य संबन्धि यदनुष्ठानं पाकत्रा पाकेषु पाकयज्ञवदित्यर्थः। तस्य पशव्यत्वं युक्तम् । “ पाकयज्ञं वा अन्वाहिताग्नेः पशव उप तिष्ठन्ते" (तैसं १.७.१) इति श्रुतत्वात् । यस्मादत्रेध्माबर्हिरादयो न सन्ति तस्मादेतत्कर्म पाकयज्ञवदेव क्रियते ॥ प्राच्यमङ्गं विधत्ते- “ आज्यभागौ यजति । यज्ञस्यैव चक्षुषी नान्तरेति " (तैब्रा १.६.६) इति ॥ यागवेलायामुद्देश्यां देवतां प्रशंसति-" मरुतो गृहमेधिनो यजति । भागधेयेनैवैनान्त्समर्धयति" (तैब्रा १.६.६ ) इति । उदीच्यमङ्गं विधते-“अग्निꣳ स्विष्टकृतं यजति प्रतिष्ठित्यै " (तैब्रा १.६.६) इति ॥ अङ्गान्तरं विधत्ते-" इडान्तो भवति । पशवो वा इडा । पशुष्वेवोपरिष्टात् प्रतितिष्ठति " (तैब्रा १.६.६) इति । अर्थसिद्धं चतुर्धाकरणाद्युदीच्याङ्गान्तराभावं द्योतयितुमन्तशब्दः ॥ तदेवमनुब्राह्मणगतेनैकेनानुवाकेन पूर्वदिनेऽनुष्ठेया मुख्यब्राह्मणविहितास्तिस्र इष्टयो व्याख्याताः।
अनुवाकान्तरेण द्वितीयदिने कर्तव्यत्वेन विहिता इष्टयो व्याख्यातव्याः। तत्राऽऽदौ तावत् गृहमेधीयशेषभूतं किंचिदङ्गॆ विधातुं प्रस्तौति-" यत्पत्नी गृहमेधीयस्याश्नीयात् । गृहमेध्येव स्यात् । वि त्वस्य यज्ञ ऋध्येत । यन्नाश्नीयात् । अगृहमेधी स्यात् । नास्य यज्ञो व्यृध्येत" (तैब्रा १.६.७) इति । यदि पत्नी गृहमेधीयस्य चरोर्भागं भुञ्जीत तदा यजमानो गृहेण यज्ञेन चोपेतो भवति । किं त्वस्मिन् पक्षे यजमानस्य यज्ञो व्यृद्धो भवेत् । अभोजनपक्षे तु व्यृद्धत्वदोषो न भवति । किं तु गृहमेधित्वाभावः ॥ विधत्ते-“प्रतिवेशं पचेयुः। तस्याश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृध्यते" (तैब्रा १.६.७) १५ इति । प्रातिस्विकत्वेन पत्नीं विशतीति प्रतिवेशः पत्न्यर्थ ओदनस्तं दक्षिणाग्नौ पक्तारः पचेयुः। तथा चाऽऽपस्तम्ब:-" दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनं पचति" (आपश्रौ ८.१०.१०) इति । पत्नी तमोदनमश्नीयात् , ततो नोक्तदोषद्वयम् । अभोजनाभावाद्गृहमेधीयभोजनाभावाच्च ॥ भोजनादीन् विधातुं प्रस्तौति- " ते देवा गृहमेधीयेनेष्ट्वा । आशिता अभवन् । आञ्जताभ्यञ्जत । अनुवत्सानवासयन् । तेभ्योऽसुराः क्षुधं प्राहिण्वन् । सा देवेषु लोकमवित्त्वा। असुरान् पुनरगच्छत् " (तैब्रा १.६.७) इति । आशिता भुक्तवन्तः । आञ्जत नेत्रयोरञ्जनं प्रक्षिप्तवन्तः । अभ्यञ्जताभ्यङ्गं कृतवन्तः । धेनूरनु वत्सानवासयन् स्तनपानार्थमवासृजन् । तदानीमसुरा देवानां समीपे क्षुधं प्रेरितवन्तः । सा च क्षुध् तेषु तृप्तेषु देवेषु स्थानमलब्ध्वा पुनरप्यसुरानेव प्राप्नोत् ॥ विधत्ते “ गृहमेधीयेनेष्ट्वा । आशिता भवन्ति । आञ्जतेऽभ्यञ्जते । अनु वत्सान् वासयन्ति । भ्रातृव्यायैव तद्यजमानः क्षुधं प्रहिणोति" (तैब्रा १.६.७) इति ॥ तदेतदभिप्रेत्य पूर्वमाशिता एवाद्योपवसामेत्यादिदेवविचार उदाहृतः । अत्र गृहमेधीयसंनिधौ द्वौ मन्त्रावाम्नातौ । तयोर्विनियोगमापस्तम्ब आह-"शरनिष्कासस्य दर्वी पूरयित्वा वृषभमाहूय तस्य रवते पूर्णा दर्वि परा पतेत्यनुद्रुत्योत्तरया गार्हपत्ये जुहुयात् । यदृषभो न रुयाद्ब्रह्मा ब्रूयाज्जुहुधीति " (आपश्रौ ८.११.१९-२०) इति । पच्यमाने चरौ क्षीरमण्डवद्घनीभूतो योंऽश उपरि तिष्ठति सोऽयं शरनिष्कासः । तस्य रवते वृषभस्य शब्दे निष्पन्ने सति ॥

पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत ।
वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ।।
पूर्णा । दर्वि । परेति । पत । सुपूर्णेति सु-पर्णा । पुनः । एति । पत।
वस्ना । इव । वीति । क्रीणावहै । इषम् । ऊर्जम् । शतक्रतो इति शत-क्रतो ॥

पूर्णेति ॥ प्रथममन्त्रपाठस्तु-पूर्णा दर्वि परा पतं सुपूर्णा पुनरा पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो' इति । हे दर्वि, त्वं शरनिष्कासेन 'पूर्णा सती 'परा 'पत इन्द्रं प्रति गच्छ । त्वत्प्रसादाद्धनेन तज्जन्यबलेन 'सुपूर्णा सती पुनः अस्मान् प्रत्यागच्छ। हे शतक्रतो, आवां वस्ना इव वि क्रीणावहै । यथा लोके कश्चित् स्वकीयं धनं दत्त्वा तण्डुलादिकं क्रीणाति तद्वदहमिन्द्राय तुभ्यं शरनिष्कासं दत्त्वा त्वत्तः इषम् ऊर्जं च क्रीणामि । तदिदमुच्यते--वस्नेव वसुनेव धनेनेव विक्रीणावहै इति ॥

देहि मे ददामि ते नि मे धेहि नि ते दधे ।
निहारमिन्नि मे हरा निहारं (१) नि हरामि ते ॥
देहि । मे । ददामि । ते । नीति । मे । धेहि । नीति । ते । दधे ॥
निहारमिति नि-हारम् । इत् । नीति । मे। हर । निहारमिति नि-हारम् (१)। नीति । हरामि । ते॥

देहीति ॥ द्वितीयमन्त्रपाठस्तु-देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारमिन्नि मे हरा निहारं नि हरामि ते ' इति ॥ हे इन्द्र, मे यदपेक्षितं तत् त्वं देहि । तव यदपेक्षितं तदहं ददामि । दत्त्वा च त्वं मम समीपे नि धेहि अवस्थापय । तव समीपेऽहमवस्थापयामि। तदुभयं सकृदेव न भवति किं तु निहारम् इत् पुनःपुनर्निर्हृत्यैव समानीयैव मे समीपे नि हर नितरां स्थापय । अहमपि पुनः पुनर्निर्हृत्य ते समीपे स्थापयामि ॥ यथोक्तं निष्कासहोमं प्रस्तौति-" ते देवा गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं न्यदधुः। अस्मानेव श्व इन्द्रो निहितभाग उपावर्तितेति । तानिन्द्रो निहितभाग उपावर्तत " (तैब्रा १.६.७) इति । उपावर्तिता समीपमागमिष्यति । उपावर्तत समीपमागच्छत् ॥ विधत्ते-- "गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं निदध्यात् । इन्द्र एवैनं निहितभाग उपावर्तते" (तैब्रा १.६.७) इति । होमाय प्राप्तमाहवनीयं वारयितुं विधत्ते--" गार्हपत्ये जुहोति । भागधेयेनैवैनꣳ समर्धयति " (तैब्रा १.६.७) इति । यागकाले ध्वनिं कर्तुमृषभस्याऽऽह्वानं विधत्ते--" ऋषभमाह्वयति ॥ वषट्कार एवास्य सः । अथो इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते" (तैब्रा १.६.७) इति ॥

मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर्वपति साकꣳ सूर्येणोद्यताऽऽग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुमैन्द्राग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालम् ॥ ४॥
[ हरा निहारं त्रिꣳशच्च ]
मरुद्भ्य इति मरुत्-भ्यः। क्रीडिभ्य इति क्रीडि-भ्यः। पुरोडाशम् । सप्तकपालमिति सप्त-कपालम् । निरिति । वपति । साकम् । सूर्येण । उद्यतेत्युत्-यता। आग्नेयम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् ।। द्वादशकपालमिति द्वादश-कपालम् । सारस्वतम् । चरुम् । पौष्णम् । चरुम् । ऐन्द्राग्नमित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । ऐन्द्रम् । चरुम् ।
वैश्वकर्मणमिति वैश्व-कर्मणम् । एककपालमित्येक - कपालम् ॥ ४ ॥
[ मैसं १.१०.१-२; कासं ९.५; कपिसं ८.८; वासं ३.४९-५० ]

मरुद्भ्य इति ॥ द्वितीयदिनेऽनुष्ठेयानि नव हवींषि विधत्ते--" मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर्वपति साकꣳ सूर्येणोद्यताऽऽग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुमैन्द्राग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालम्" इति ॥ आद्यस्य हविष उत्तरहविरष्टकस्य च कालभेदात् प्रयोगभेदो द्रष्टव्यः । क्रीडैषामस्तीति क्रीडिनस्तदेतत् क्रीडित्वं विशेषणम् ॥ तस्य हविषः पाठप्राप्तं प्राथम्यं प्रशंसति-"इन्द्रो वृत्रꣳ हत्वा । परां परावतमगच्छत् । अपाराधमिति मन्यमानः। सोऽब्रवीत् । क इदं वेदिष्यतीति । तेऽब्रुवन् मरुतो वरं वृणामहै। अथ वयं वेदाम । अस्मभ्यमेव प्रथमꣳ हविर्निरुप्याता इति । त एनमध्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् । यन्मरुद्भ्यः क्रीडिभ्यः प्रथमꣳ हविर्निरुप्यते विजित्यै " (तैब्रा १.६.७) इति । परां परावतम् अत्यन्तदूरम् । अपाराधं द्रोहमकार्षम् । भीत्या पलायमानः स इन्द्रो मरुतां समीपे किंचिदब्रवीत्-वृत्रो मृतो न वेतीदं समीपे गत्वा को वेदिष्यतीति । ते च मरुतो वरे दत्ते वेदिष्याम इत्यब्रुवन् । इतरेभ्योऽग्न्यादिभ्यः प्रथमो निर्वापो वरः । ततस्ते मरुत एवं भूमौ पतितं वृत्रमधिरुह्य बहुविधेन नृत्येनाक्रीडन् । क्रीडित्वा च मृतोऽयमिति ज्ञातवन्तः । तस्मादेतेषां क्रीडित्वं विशेषणं संपन्नम् । निर्वापकालं प्रशंसति- “साकꣳ सूर्येणोद्यता निर्वपति । एतस्मिन् वै लोक इन्द्रो वृत्रमहन्त्समृद्ध्यै " (तैब्रा १.६.७) इति ।
एतस्मिन्नेव लोके सूर्योदयेनावलोक्यमानभूप्रदेशे ॥ वैश्वदेवपर्वण्युक्तमाग्नेयादिपञ्चकप्रशंसकं वरुणप्रघासपर्वण्युक्तमैन्द्राग्नप्रशंसकं च ब्राह्मणमत्रातिदिशति- "एतब्राह्मणान्येव पञ्च हवीꣳषि । एतद्ब्राह्मण ऐन्द्राग्नः" (तैब्रा १.६.७) इति ॥ चरोरैन्द्रत्वं प्रशंसति-"अथैष ऐन्द्रश्चरुर्भवति । उद्धारं वा एतमिन्द्र उदहरत । वृत्रꣳ हत्वा । अन्यासु देवतास्वधि । यदेष ऐन्द्रश्चरुर्भवति । उद्धारमेव तं यजमान उद्धरते । अन्यासु प्रजास्वधि" (तैब्रा १.६.७) इति । अन्यास्वग्न्यादिदेवतास्वधिकोऽयमित्येतमुद्धार
मुत्कर्षाभिमानमुदहरतोत्पादितवान् ॥ विश्वकर्मरूपामन्त्यहविषो देवतां प्रशंसति-" वैश्वकर्मण एककपालो भवति । विश्वान्येव तेन कर्माणि यजमानोऽवरुन्द्धे " (तैब्रा १.६.७) इति ॥
अत्र विनियोगसंग्रहः--
पूर्णेत्यनूच्य देहीति याज्यामध्वर्युरीरयेत् "॥१॥ (इति)।
अथ मीमांसा ॥ पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्--
"साकमेधेष्टयस्तिस्रो द्वयहे स्युः सद्य एव वा।
प्रातरादेर्द्वयोरह्नोः सत्त्वात् प्रकृतिवद्द्व्यहे ।।
साङ्गमुख्यानुरोधेन प्रातरादेर्विधानतः ।।
श्रौतं सद्यस्त्वमन्यत्तु चोदकात्तेन दुर्बलम् ॥” (जैन्या ५.१.२२-२३)॥
चातुर्मास्येषु साकमेधनामके तृतीये पर्वणि श्रूयते-“ अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुं मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्" (तैसं १.८.४) इति । ता एतास्तिस्र इष्टयो द्व्यहकालीनाः, यथा प्रकृतौ पर्वण्यन्वाधानादिकं प्रतिपदीष्टिरिति द्व्यहकालीनत्वं तद्वत् । ननु प्रातर्मध्यंदिनसायंशब्दैरेकस्मिन्नेवाह्नि त्रयः कालाः
तिसृणामिष्टीनां विहिताः । तन्न । द्वयोरप्यह्नोः प्रातरादिकालसद्भावात् । पूर्वेद्युः प्रातरादिकालेषु स्वकीयेषु तासामुपक्रमः। परेद्युः प्रातरादिषु ताः समापनीयाः। ततो द्व्यहकालीनतेति प्राप्ते ब्रूमः-तत्राऽग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपतीति साङ्गं प्रधानं प्रातःकालीनतया विधीयते । प्रातःशब्दश्च स्वत एकमेव प्रातःकालमभिधाय पर्यवस्यति । प्रातरग्निहोत्रमित्यादौ तद्दर्शनात् । तस्मात् साङ्गस्य प्रधानस्यैकस्मिन्नेव प्रातःकाले विधानात् सद्यस्कालीनत्वं श्रौतं; चोदकेन तु अन्वाधानाद्यङ्गं पूर्वेद्युः प्रातः, प्रधानं परेद्युः प्रातः कल्प्यते । उपदेशश्चोदकाद्बलीयान् । तस्मादेकाहकालीना इष्टयः ।
सप्तमाध्यायस्य प्रथमपादे चिन्तितम्----
"किं वैश्वदेविकादेककपालादतिदेशनम् ।
साकमेधेषु वरुणप्रघासस्थादुताग्रिमः॥
प्रकृतावर्थबाहुल्यादन्तिमः संनिधानतः ।
ऐन्द्राग्नसाहचर्याच्च सार्थत्वमधिकत्वतः ॥” (जैन्या ७.१.१०--११)॥
वैश्वदेवे द्यावापृथिव्य एककपालो वरुणप्रघासेषु काय एककपालस्तयोः पृथग्ब्राह्मणमाम्नातम् । साकमेधेषु वैश्वकर्मण एककपालस्तस्मिन् वैश्वदेविकैककपालब्राह्मणमतिदेष्टव्यम् । कुतः ? प्रकृतित्वेन तस्मिन्नुपदिश्यमानधर्मबाहुल्यात् । वारुणप्रघासिकस्य तद्विकृतित्वादल्पा एव धर्मविशेषा उपदिष्टाः शमीमय्यो हिरण्यमय्यो वा स्रुचो भवन्तीत्यादयः । तत्र बह्वनुग्रहो न्याय्य इति प्राप्ते ब्रूमः--वारुणप्रघासिकब्राह्मणस्य प्रत्यासन्नत्वात्तस्यैवातिदेशो युक्तः । ऐन्द्राग्नब्राह्मणं तत्रत्यमेवातिदिश्यते । वैश्वदेवे तदभावात् । तत्साहचर्यादिदमपि तत्रत्यमेव । ननु प्रकृतिभूतात् वैश्वदेविकैककपालादेर्वारुणप्रघासिकवत् साकमेधीयेऽपि चोदकेन धर्मातिदेशसिद्धौ ब्राह्मणातिदेशकं वाक्यमिदं व्यर्थम् इति चेत् । न । हिरण्मयत्वाद्यधिकधर्मातिदेशायापेक्षितत्वात् । तस्माद्वारुणप्रघासिकैककपालब्राह्मणस्यैवातिदेशः ॥
दशमाध्यायस्य सप्तमपादे चिन्तितम्—
“गृहमेधीयके त्वाज्यभागावित्यनुवादगीः।
स चोदकविधिर्वाऽर्थवादो वाऽधिककर्म वा ॥
परिसंख्योत संकोच्यश्वोदकोऽन्यत्र वाऽत्र वा ।
अपूर्वं गृहमेधीयं स्याद्वाऽतो लुप्तचोदकम् ॥
अनुवादः पुनः श्रुत्या द्वितीयः सार्थतावशात् ।
निर्वापवच्चोदकस्य लिङ्गत्वेन सहायता ॥
चोदनेनैव तत्सिद्धेरैष्टिकस्य प्रशंसनम् ।
विध्येकवाक्यता नास्ति तेनात्राङ्गान्तरे विधिः॥
प्रत्यभिज्ञानतोऽङ्गस्य परिसंख्येतरस्य हि ।
दोषत्रयाच्चोदकस्य संकोचोऽङ्गान्तरेष्वतः ॥
व्यापारैक्याच्चोदकस्य स्वार्थे संहरणं भवेत् ।
वैरूप्याच्च निरर्थत्वादपूर्वं कर्म युज्यते ॥
आज्यभागेति नाम्नोपकारक्लृप्तिस्मृतेरिदम् ।
नामत्वादि समं तस्माल्लुप्यते तेन चोदकः ॥” (जैन्या १०.७.११-१७)॥
" मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनः" (द्र. तैसं १.८.४; मैसं १.१०१) इति विहिते गृहमेधीये श्रूयते--" आज्यभागौ यजति" (तैब्रा १.६.६, मैसं १.१०.१५) इति । अष्टधाऽत्र संशयः--चोदकप्राप्तयोराज्यभागयोरिह पुनःश्रवणादनुवादोऽयमित्याद्यः पक्षः। तथा सति वैयर्थ्यप्रसङ्गात् सार्थकत्वाय चोदकैतद्वाक्ययोर्मिलितयोरत्राऽऽज्यभागविधायकत्वमभ्युपेतव्यम् । ओषधिद्रव्यनिर्वापादयो यथा प्रकृतिगताः सन्तो विकृतावपि "श्रूयमाणाश्चोदकस्य लिङ्गं तथाऽऽज्यभागावपि लिङ्गत्वेन सहायभूतौ । ततो मिलितयोर्विधायकत्वमिति द्वितीयः पक्षः। गृहमेधीयविधिवाक्ये श्रुतस्यौदनस्यैवोषधिद्रव्यतया लिङ्गत्वसिद्धेर्नास्ति लिङ्गान्तरापेक्षा। तस्मात् प्रकृताविष्टौ श्रुतस्याऽऽज्यभागकर्मण इह पुनःश्रवणमर्थवादत्वेन तत्प्रशंसार्थमिति तृतीयः पक्षः । भिन्नप्रकरणे श्रुतस्य विध्येकवाक्यत्वायोगादर्थवादत्वमयुक्तम् । ततश्चोदकप्राप्तादाज्यभागादिकर्मणोऽधिकमाज्यभागरूपमङ्गान्तरमिह विधीयत इति चतुर्थः पक्षः। ऐष्टिकयोराज्यभागयोरिह प्रत्यभिज्ञानान्नाङ्गान्तरत्वं युक्तम् । तस्मादाज्यभागव्यतिरिक्तस्य प्रयाजाद्यङ्गस्य परिसंख्यानार्थमिदमाज्यभागश्रवणमिति पञ्चमः पक्षः। आज्यभागवाक्येन तद्विधिरूपः स्वार्थस्त्यज्येत प्रयाजादिनिषेधरूपोऽन्योऽर्थः परिगृह्येत चोदकप्राप्तं च प्रयाजाद्यनुष्ठानं बाध्येतेति दोषत्रयप्रसङ्गान्न परिसंख्या युक्ता । तेन प्रत्यक्षविधिरूपादस्मादाज्यभागवाक्यादानुमानिकचोदकवाक्यमाज्यभागव्यतिरिक्तप्रयाजाद्यङ्गेषु संकोचनीयमिति षष्ठः पक्षः । यदि चोदकस्य प्रत्यङ्गं पृथग्व्यापाराः स्युस्तदा प्रयाजाद्यङ्गगोचरैर्व्यापारैस्तेषामतिदेशः सिध्यति । आज्यभागगोचरस्यानेन प्रत्यक्षविधिना बाधितत्वान्न चोदकेनाऽऽज्यभागातिदेश इत्येवं संकोचो वर्णयितुं शक्यते। इह तु शब्दबुद्धिकर्मणां विरम्य व्यापाराभाव इति न्यायेन एक एव चोदकस्य व्यापारः । तथा सति युगपदतिदेशोऽनतिदेशश्चेति विरुद्धधर्मत्वं प्रसज्येत । तस्मात् प्रयाजाद्यङ्गेषु संकोचो न युक्तः । तेन चोदकोऽत्राऽऽज्यभागकर्मणि संकोचनीयः । न चोक्तदोषापत्तिः । अस्य संकोचस्योपसंहाररूपत्वात् । आज्यभागयोरेव शक्तस्य चोदकस्य त्वज्ञातशक्तिज्ञापनमुपसंहारः । तथा सत्याज्यभागातिदेशव्यापृतस्य चोदकस्य को नामातिदेशतन्निवृत्तिरूपविरुद्धधर्मप्रसङ्गः । तत्राऽऽज्यभागकर्मणि चोदकावस्थापनमिति सप्तमः पक्षः। 'पुरोडाशं चतुर्धा करोति आग्नेयं चतुर्धा करोति' (द. आपश्रौ ३.३.२) इत्यनयोरुभयोरपि प्रत्यक्षवचनत्वेन सरूपत्वादस्तु तत्रोपसंहारः। इह तु प्रत्यक्षपरोक्षयोर्वचनचोदकयोर्विरूपत्वान्नासौ युक्तः । किं तु प्रत्यक्षवचनेनैवाऽऽज्यभागविधिसिद्धेश्चोदककल्पना निरर्थिका । तस्मात् उपसंहारो न युक्तः। तस्मादपूर्वो गृहमेधीयो न चोदकेनान्याङ्गानि गृह्णाति । इतिकर्तव्यताकाङ्क्षा तु प्रत्यक्षवचनेनैव पूर्यते । एवं सत्युक्तदोषाभावादयमष्टमः पक्षोऽभ्युपगन्तव्यः । ननु सांग्रहण्यामिष्टौ प्रत्यक्षवचनविहितैरामनहोमैः सह चोदकातिदिष्टानामनूयाजानां समुच्चयोऽङ्गीकृतस्तद्वदत्राऽपि विधीयमानयोराज्यभागयोश्चोदकप्राप्तैः प्रयाजाद्यङ्गैः सर्वैः सह समुच्चयोऽस्तु । न। वैषम्यात् । प्रकृतावाज्यभागयोस्तूपकारः क्लृप्तः। सोऽत्र नामसाम्येन स्मर्यते । तस्मात् क्लृप्तोपकाराभ्यां विधीयमानाभ्यामाज्यभागाभ्यां निराकाङ्क्षो गृहमेधीयः । आमनहोमास्तु न क्लृप्तोपकारा इति तैः सांग्रहण्या अङ्गाकाङ्क्षा न पूर्यते । तत्र क्लृप्तोपकारैरनूयाजाद्यङ्गैः चोदकेन सहातिदिष्टैः पूर्यते । ततो विधिवैयर्थ्यपरिहारायाऽऽमनहोमेषूपकारे क्लृप्ते सति “तस्मिन् प्रवर्तमानः प्रयोगवचनः समुच्चित्याऽनुष्ठापयति ।
"ततो वैषम्यात् क्लृप्तोपकाराज्यभागविधायकेनानेन प्रत्यक्षवचनेन गृहमेधीयचोदको लुप्यते । तस्मादविकृतिरूपं साङ्गमपूर्वं कर्मात्र विधीयत इति सिद्धान्तः॥
तत्रैवान्यच्चिन्तितम्--
 “तत्रान्यदङ्गं नो कार्यं कार्यं वाऽन्यानपेक्षणात् ।
न कार्यं विहितत्वेन कार्यं स्विष्टकृदादिकम् ॥” (जैन्या १०.७.१८)
तत्र गृहमेधीय आज्यभागाभ्यामेव निराकाङ्क्षत्वादन्यत् स्विष्टकृदादिकं न कार्यमिति चेत् । मैवम् । आज्यभागवद्विहितत्वात् । " यदग्नये स्विष्टकृते समवद्यति" (द्र. मैसं १.१०.१५)," इडामुपह्वयते(न्ते)" (मैसं १.१०.१५) इति विहितम् । तस्माद्यावदुक्तं कर्तव्यम् ॥
तत्रैवान्यच्चिन्तितम्—
" तत्रैव परिसंख्यात्वे प्राशित्राद्यस्ति वा न वा।
अस्तीडादर्शनान्मैवं तदुक्त्याऽस्त्वत्र नेतरत् ॥” (जैन्या १०.७.१९)॥
गृहमेधीये स्विष्टकृति आज्यभागवदष्टधा संशयं हृदि निधाय परिसंख्यार्थं पञ्चमं क्षमभ्युपेत्येयं कृत्वाचिन्ताऽवतारिता। तत्र प्राशित्रादिभक्षणं न परिसंख्यातं किं तु तदस्ति । कुतः ? भक्षणाद्यर्थस्येडोपाह्वानस्य तत्र दर्शनादिति प्राप्ते ब्रूमः--अत्र गृहमेधीये तदिडाभक्षणं वचनबलेनास्तु । स्विष्टकृद्वाक्य प्रापितस्य परिसंख्यातस्य वचनेन निवारितत्वात् । इतरत्प्रात्रादिभक्षणं परिसंख्यातत्वान्नास्ति ।
सप्तमाध्यायस्य तृतीयपादे चिन्तितम्--
"सौमिकं प्राकृतं वा स्याद्द्वयो: प्रणयनं श्रुतम् ।।
आद्योऽप्राप्तत्वतो मैवमनामत्वेन वाऽग्रिमः॥" (जैन्या ७.३.१७)॥
चातुर्मास्येषु श्रूयते--" द्वयोः प्रणयति, तस्माद्द्वाभ्यां यन्ति” इति । अत्र सौमिकधर्मकमग्निप्रणयनं यत्तदेव ग्रहीतव्यम् । कुतः ? सोमस्य चातुर्मास्यप्रकृतित्वाभावेन तदीयप्रणयनस्यात्र चोदकादप्राप्तस्य विध्यर्हत्वात् । दर्शपूर्णमासगतं त्वग्निप्रणयनं चोदकप्रापितत्वादविधेयम् । तस्मात् सौमिकस्य धर्मा अत्र प्रणयनशब्देनातिदिश्यन्त इति प्राप्ते ब्रूमः-- नाऽयं प्रणयनशब्दः सौमिकस्य प्रणयनकर्मणो नामधेयं, किं तु निर्मन्थ्यबर्हिरादिशब्दवल्लौकिक एव । ततो न धर्मातिदेशः। यदि प्राकृतप्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यं तर्ह्यर्थवादसंबन्धाय तद्वाक्यमस्तु ॥
तत्रैवान्यच्चिन्तितम्-..
"आद्यन्तयोर्मध्ययोर्वा पर्वणोस्तत्प्रसञ्जकात् ।
आद्यन्तयोरूरुगत्या मध्ययोः पर्वणोर्भवेत् ॥” (जैन्या ७.३.१८)॥
“ तस्माद्द्वाभ्यां यन्ति" इत्यर्थवादेन संबन्धाय पुनर्विधिना यत्प्रकृतमग्निप्रणयनं चोदकप्राप्तमपि श्रूयत इत्युक्तं तद्वैश्वदेवशुनासीर्ययोः पर्वणोर्भवितुमर्हति । कुतः ? प्रसञ्जकात् । तथा हि--"न वैश्वदेव उत्तरवेदिमुपवपति न शुनासीर्ये ” (द्र मैसं १.१०.१३) इत्युत्तरवेदिप्रतिषेधस्तयोः पर्वणोरुत्तरवेदिं प्रसञ्जयति। अप्रसक्तप्रतिषेधायोगात्। उत्तरवेदिश्चाग्निप्रणयनार्था। तस्मादुत्तरवेदिप्रसक्तिद्वारेणाऽऽद्यन्तयोरिदमग्निप्रणयनम् इति प्राप्ते ब्रूमः-" ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासाः साकमेधश्च" (द्र. शब्रा ११.५.२.३,५) इति गमनसाधनत्वमूरुत्वं मध्यमयोः पर्वणोरुपन्यस्तम् । तत्संनिधौ द्वयोः प्रणयन्तीति चोदकप्राप्तमग्निप्रणयनमर्थवादार्थं पुनर्विधाय 'द्वाभ्यां यन्ति' इत्यर्थवादेनोरुत्वकल्पना युक्ता। द्वाभ्यां पर्वभ्यां गमनमुपन्यस्यते । तस्मात् मध्यमयोस्तत् प्रणयनम् । न चात्रोत्तरवेदेरभावात् प्रणयनाभाव इति शङ्कनीयम् । उपवपतीत्यनारभ्यश्रुतेन वाक्येनोत्तरवेद्युपवापस्य विहितत्वात् । सा चोत्तरवेदिराद्यन्तयोः पर्वणोर्निषेधात् मध्यमयोरवतिष्ठते । तस्माच्चोत्तरवेद्यां प्रणीतोऽग्निर्विधीयते । एतदर्थमेव हि सार्थवादं पुनर्विधानम् ॥ उक्तमधिकरणद्वयमेकीकृत्य वार्तिककारेण यो निर्णयोऽभिहितस्तं दर्शयति-
" अनामत्वाच्च वैयर्थ्यात् सौमिकं प्राकृतं च न।
अपूर्वं तत्प्रणयनं शाखान्तरसमोक्तितः॥" (जैन्या ७.३.१९)
'आहवनीयादग्निं प्रणयतः' इति शाखान्तरे मध्यमयोर्नूतनं प्रणयनं विहितम् । तेन समानवचनत्वादत्राप्यपूर्वं प्रणयनं विधीयते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके चतुर्थोऽनुवाकः ॥ ४॥

1.8.5

सायणभाष्यम्

१.८.५
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः ।।
पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थ-
सोमाय । पितृमत इति पितृ-मते । पुरोडाशम् । षट्कपालमिति षट्-कपालम् । निरिति । वपति । पितृभ्य इति पितृ-भ्यः। बर्हिषद्भ्य इति बर्हिषत्-भ्यः। धानाः । पितृभ्य इति पितृ-भ्यः । अग्निष्वात्तेभ्य इत्यग्नि-स्वात्तेभ्यः । अभिवान्याया इत्यभि-वान्यायै । दुग्धे । मन्थम् ।
चतुर्थे साकमेधाख्ये तृतीये पर्वणि प्रधानहवींष्युक्तानि । पञ्चमे तदीयशेषो महापितृयज्ञ उच्यते ।
सोमायेति ॥ आदौ तावत्त्रीणि हवींषि विधत्ते-'सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्' इति । पितरोऽस्य सन्तीति पितृमान् पितृस्वामीत्यर्थः । बर्हिषि यज्ञे सीदन्तीति बर्हिषदः । धानाः भृष्टयवाः । 'अग्निष्वात्ताः अयज्ञनिष्ठाः । अभिवान्या मृतवत्सा धेनुः । क्षीरे यवपिष्टं प्रक्षिप्य मिश्रीकृतं द्रव्यं मन्थः ॥ तदिदं हविस्त्रयं पितृयज्ञः । तस्य च पितृयज्ञस्य विधिमर्थवादेनोन्नयति--"वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर्वरुणपाशादमुञ्चत् । साकमेधैः प्रत्यस्थापयत् । त्र्यम्बकै रुद्रं निरवादयत । पितृयज्ञेन सुवर्गं लोकमगमयत् । यद्वैश्वदेवेन यजते । प्रजा एव तद्यजमानः सृजते । ता वरुणप्रघासैर्वरुणपाशान् मुञ्चति ।
साकमेधैः प्रतिष्ठापयति । त्र्यम्बकै रुद्रं निरवदयते । पितृयज्ञेन सुवर्गं लोकं गमयति" (तैब्रा १.६.८) इति । " प्रतिपूरुषमेककपालान् निर्वपति" (तैसं १.८.६, तैब्रा १.६.१०) इति विधास्यमाना यागाः त्र्यम्बकाः तैः क्रूरं रुद्रं परितोष्य निःसारितवान् । तत्र स्वर्गलोकहेतुत्वेनात्यन्तप्रशस्तत्वात् पितृयज्ञः कर्तव्यः इत्यभिप्रायः ॥ अत्र हेयं पक्षं पूर्वपक्षतया विधत्ते- "दक्षिणतः प्राचीनावीती निर्वपति । दक्षिणावृद्धि पितृणाम् " (तैब्रा १.६.८) इति । गार्हपत्यस्य दक्षिणदेशे स्थित्वा प्राचीनावीती
सन्नुक्तानां हविषां निर्वापं कुर्यात् । यस्मात् पितॄणां संबन्धि कर्म दक्षिणावृत् प्रायेण दक्षिणस्यां दिशि वर्तते ॥ तं पक्षं दूषयित्वा सिद्धान्तं विधत्ते-- " अनादृत्य तत् । उत्तरत एवोपवीय निर्वपेत् । उभये हि देवाश्च पितरश्चेज्यन्ते" (तैब्रा १.६.८) इति। यत्रैकोद्दिष्टश्राद्धादौ पितर एव पूज्यन्ते तत्र पूर्वोक्तं दक्षिणावृत्त्वमस्तु । इह त्वाज्यभागादिदेवा अग्निष्वात्तादिपितरश्चेज्यन्ते । अतो देवानां प्रियायोत्तरतोऽवस्थापनमुपवीतं च ॥ तर्हि पितॄणां प्रीतिर्न स्यादित्याशङ्क्य विध्यन्तरेण दक्षिणावृत्त्वं संपादयति--" अथो यदेव दक्षिणार्धेऽधिश्रयति । तेन दक्षिणावृत्" (तैब्रा १.६.८) इति । हविः पाकाय गार्हपत्यस्य दक्षिणभागेऽधिश्रयेत् । तेनैतत् कर्म पितृप्रीत्यै दक्षिणावृदपि भविष्यति ॥ एतदेव कालरूपेण प्रशंसति--" सोमाय पितृमते पुरोडाशꣳ षटकपालं निर्वपति । संवत्सरो वै सोमः पितृमान् । संवत्सरमेव प्रीणाति । पितृभ्यो बर्हिषद्भ्यो धानाः । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । यस्मिन् वा ऋतौ पुरुषः प्रमीयते । सोऽस्यामुष्मिँल्लोके भवति " (तैब्रा १.६.८) इति । 'वसन्ते वसन्ते ज्योतिषा यजेत ' इति विधानात् सोमस्य संवत्सरत्वम् । स एव पितॄणामपि पतिरिति तस्य पितृमत्त्वं, 'मासि पितृभ्यः क्रियते' इति अमावास्याश्राद्धाभिधानात् पितॄणां मासत्वं चोपचर्यते । “ यदि वसन्ता प्रमीयते । वसन्तो भवति । यदि ग्रीष्मे ग्रीष्मः " (तैब्रा १.४.१०) इत्यभिधानात्, तत्तदृतुदेवताप्राप्तिः एवास्यामुष्मिन् ऋतुसंबन्धः ॥ भर्जनेन क्वचिदीषत्कृष्णत्वं क्वचित् कृष्णत्वं क्वचिदकृष्णत्वमित्येवंविधं त्रैविध्यं विधत्ते-"बहुरूपा धाना भवन्ति । अहोरात्राणामभिजित्यै" (तैब्रा १.६.८) इति । अहान्यकृष्णानि अमावास्यारात्रिः अतिकृष्णा, अन्यास्तु रात्रय ईषत्कृष्णाः ॥ तृतीययागदेवतां प्रशंसति--" पितृभ्योऽग्निष्वात्तेभ्यो मन्थम् । अर्धमासा वै पितरोऽग्निष्वात्ताः । अर्धमासानेव प्रीणाति" (तैब्रा १.६.८) इति । बर्हिषदामनुष्ठितयागत्वात् मासत्वम् । अग्निष्वात्तानां यागाभावादर्धमासत्वम् । एतच्च “ ये वै यज्वानः। ते पितरो बर्हिषदः" (तैब्रा १.६.९) इत्यादिना वक्ष्यते ॥ मृतवत्सां प्रशंसति- “ अभिवान्यायै दुग्धे भवति । सा हि पितृदेवत्यं दुहे " ( तैना १.६.८ ) इति । पितृदेवत्यं पितृदेवताभ्यो हितम् । मृताः पुरुषाः पितरो भवन्ति । अभिवान्या च मृतवत्सेति सजातीयत्वात् तत्र तेषां प्रीतिः ॥ यदुक्तमापस्तम्बेन--" उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति । अर्धाः पिष्टानामावृता सक्तून् कृत्वाऽभिवान्यायै दुग्धस्यार्धशरावे सक्तूनोप्यैकयेक्षुशलाकयेक्षुकाण्डेन वा दक्षिणामुखस्त्रिः प्रसव्यमनारभ्योपमन्थति" (आपश्रौ ८.१४.१३-१४) इति। तत्रार्धशरावे मन्थनं विधत्ते - " यत्पूर्णम् । तन्मनुष्याणाम् । उपर्यर्धो देवानाम् । अर्धः पितृणाम् । अर्ध उपमन्थति । अर्धो हि पितृणाम्" (तैब्रा १.६.८) इति । भुञ्जाना मनुष्याः पात्रपूर्णमेव घृतमिच्छन्ति । प्रयाजदेवता जुहूगतेनोपरितनाज्यभागेन तुष्यन्ति । अधोभागेन हविरभिघारणात् । अग्निहोत्रे चोपरिभागं देवेभ्यो हुत्वा अधोभागं 'स्वधा पितृभ्यः पितॄञ्जिन्वेति भूमौ निमृजन्ति' (द. आपश्रौ ६.११.५) इति३ तद्विधानात् । तदेतत्सर्वमभिप्रेत्य 'यत्पूर्णम्' (तैब्रा १.६.८) इत्याद्युक्तम् ॥ इक्षुशलाकां विधत्ते-" एकयोपमन्थति । एका हि पितृणाम् " (तैब्रा १.६.८) इति । “ यदेकमेकꣳ संभरेत् पितृदेवत्यानि स्युः" (तैसं १.६.८) इत्यादौ पितॄणामेकत्वसंख्याप्रीतिः प्रसिद्धा ॥ दक्षिणामुखत्वं विधत्ते-" दक्षिणोपमन्थति। दक्षिणावृद्धि पितृणाम्" (तैब्रा १.६.८) इति ॥ 'प्राचीं देवा दक्षिणा पितरः' इत्यादौ दक्षिणदिक्प्रीतिः प्रसिद्धा ॥ हस्ताभ्यां मन्थनं विधत्ते- "अनारभ्योपमन्थति । तद्धि पितॄन् गच्छति" (तैब्रा १.६.८) इति । तृतीयसवनगताशिरादौ मन्थानं स्तम्भे निबध्य मन्थति, तत्तु देवानां प्रियम् । अत्र त्वनारभ्य "बन्धनमकृत्वा हस्ताभ्यामेवोपमन्थति । तच्च देववैलक्षण्यात् पितॄणां प्रियम् ॥ यदुक्तमापस्तम्बेन-" न प्राचीं वेदिमुद्धन्ति। पितृयज्ञो हि । न दक्षिणा। देवयज्ञो ह्युभे दिशावन्तरोद्धत्या" (आपश्रौ ८.१३.५) इति, तामाग्नेयीं दिशमङ्गुल्या निर्दिशन् विधत्ते-" इमां दिशं वेदिमुद्धन्ति । उभये हि देवाश्च पितरश्चेज्यन्ते" (तैब्रा १.६.८) इति । तस्या वेदेश्चतुर्विधं दैविकवैलक्षण्यं क्रमेण विधत्ते--" चतुःस्रक्तिर्भवति । सर्वा ह्यनु दिशः पितरः । अखाता भवति । खाता हि देवानाम् । मध्यतोऽग्निराधीयते । अन्ततो हि देवानामाधीयते । वर्षीयानिध्म इध्माद्भवति व्यावृत्त्यै" (तैब्रा १.६.८) इति । दैविकी वेदिर्दीर्घा न तु समचतुरस्रा। इयं तु समचतुरस्रेति व्यावृत्तिः । अश्रिषु प्रकारविशेषं सूत्रकारो दर्शयति-" प्रतिदिशं स्रक्तयोऽवान्तरदेशान् प्रति मध्यानि" (आपश्रौ ८.१३.३) इति । परितः कटादिभिराच्छादनं विधत्ते -- " परिश्रयति । अन्तर्हितो हि पितृलोको मनुष्यलोकात् " (तैब्रा १.६.८) इति ॥ उन्मूलनं विधत्ते --" यत्परुषि दिनम् । तद्देवानाम् । यदन्तरा । तन्मनुष्याणाम् । यत्समूलम् । तत्पितृणाम् । समूलं बर्हिर्भवति व्यावृत्त्यै" (तैब्रा १.६.८) इति । परुषि पर्वसंधौ दिनं छिन्नं तादृशं बर्हिरहिंसितत्वात् देवानां प्रियम् ।
अत एव बर्हिर्लवनब्राह्मणे श्रूयते-"प्रजापतिर्वा ओषधीः पर्वशो वेद। स एना न हिनस्ति " (तैब्रा ३.२.२) इति, "ओषधीनामहिꣳसायै” (तैब्रा ३.२.२) इति च । यदन्तरा पर्वमध्ये छिन्नं तन्मनुष्याणां प्रियं संधिविशेषस्य तैरज्ञातत्वात् । परिशेषेण समूलत्वं पितॄणां प्रियम् ॥ बर्हिषां दक्षिणाग्रत्वं विधत्ते-" दक्षिणा स्तृणाति । दक्षिणावृद्धि पितृणाम् " (तैब्रा १.६.८) इति ॥ यदुक्तमापस्तम्बेन-"आस्तरणकाले बर्हिषा त्रिः प्रसव्यं वेदिं स्तणन् पर्येति । औद्धवान् धारयमाणस्त्रिरस्तृणन्
प्रतिपर्येति । औद्धवः प्रस्तरः" (आपश्रौ ८.१४.४-६) इति । प्रसव्यमप्रदक्षिणत्वं यथा भवति तथा तदिदमप्रदक्षिणत्वप्रदक्षिणत्वाभ्यां षट्कृत्व आवर्तनं विधत्ते-" त्रिः पर्येति । तृतीये वा . इतो लोके पितरः। तानेव प्रीणाति । त्रिः पुनः पर्येति । षट् संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति " (तैब्रा १.६.८) इति । इतो भूलोकादारभ्य तृतीयः पितृलोको भोगभूमेः स्वर्गस्यान्तरिक्षादूर्ध्वभावित्वात् ॥ प्रस्तरस्यामन्त्रकमासादनं विधत्ते- " यत्प्रस्तरं यजुषा गृह्णीयात् । प्रमायुको यजमानः स्यात् । यन्न गृह्णीयात् । अनायतनः स्यात् । तूष्णीमेव न्यस्येत् । न प्रमायुको भवति । नानायतनः" (तैब्रा १.६.८) इति । गृह्णीयात् सादयेदिति ॥ दक्षिणपरिधिवर्जनमभिप्रेत्य विधत्ते-" यत्त्रीन् परिधीन् परिदध्यात् । मृत्युना यजमानं परिगृह्णीयात् । यन्न परिदध्यात् । रक्षाꣳसि यज्ञꣳ हन्युः। द्वौ परिधी परिदधाति । रक्षसामपहत्यै । अथो मृत्योरेव यजमानमुत्सृजति " (तैब्रा १.६.८) इति । " मध्यमोत्तरौ” (आपश्रौ ८.१४.१०) इति हि“ सूत्रेऽभिहितम् ॥ हविषाम् अनुक्रमेण सादनं विधत्ते- " यत् त्रीणि त्रीणि हवीꣳष्युदाहरेयुः। त्रयस्त्रय एषाꣳ साकं प्रमीयेरन् । एकैकमनूचीनान्युदाहरन्ति । एकैक एवैषामन्वञ्चः प्रमीयते" (तैब्रा १.६.८) इति । उदाहरेयुरासादयेयुः। एषां यजमानबन्धूनां मध्ये । अन्वञ्चो वृद्धबालानुक्रमगताः । एतेषां मध्य एकैक एव प्रमीयते न तु युगपत् ॥ " दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसाद्य " (आपश्रौ ८.१४.१६) इति सूत्रे यदुक्तं तद्विधत्ते-“कशिपु कशिपव्याय । उपबर्हणमुपबर्हण्याय । आञ्जनमाञ्जन्याय । अभ्यञ्जनमभ्यञ्जन्याय । यथाभागमेवैनान् प्रीणाति " (तैब्रा १.६.८) इति । कशिपु तूलपूरितशय्यादि । उपबर्हणं शिरस आधारः। कशिपुप्रभृतीन्युदाहरन्तीत्यनुवर्तते । कशिपुप्रियः कशिपव्यः पिता, तत्परितोषार्थं कशिपु सादयेत् । एवमन्यत् । तथा सति एनान् पितॄन् स्वस्वभागमनतिक्रम्य तोषयति ॥ तदेवमनुब्राह्मणगतेनानुवाकेन पितृयज्ञे हविरासादनपर्यन्तः पूर्वप्रयोगोऽभिहितः । अनुवाकान्तरेण सामिधेन्यादिक उत्तरप्रयोगोऽभिधीयते। तत्राध्वर्योः प्रैषमन्त्रमुत्पाद्य मन्त्रं व्याचष्टे- " अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्याह । उभये हि देवाश्च पितरश्चेज्यन्ते " (तैब्रा १.६.९) इति । देवानां पितॄणां चोपकारी योऽग्निः तस्मै ॥ " उशन्तस्त्वा" (तैसं २.६.१२) इत्येतामृचं सामिधेनीत्वेन विधत्ते- " एकामन्वाह । एका हि पितृणाम् " (तैब्रा १.६.९) इति ॥ तस्यामावृत्तिं विधत्ते- “त्रिरन्वाह । त्रिर्हि देवानाम् " (तैब्रा १.६.९) इति ॥ चोदकप्राप्तावाघारौ प्रशंसति-" आघारावाघारयति । यज्ञपरुषोरनन्तरित्यै" (तैब्रा १.६.९) इति । यज्ञपरुषोर्यज्ञांशयोरलोपाय ॥ वरणं पर्युदस्यति--" नाऽऽर्षेयं वृणीते । न होतारम् । यदार्षेयं वृणीते । यद्धोतारम् । प्रमायुको यजमानः स्यात् । प्रमायुको होता । तस्मान्न वृणीते। यजमानस्य होतुर्गोपीथाय" (तैब्रा १.६.९) इति । " अग्निर्देवो होता देवान् यक्षत्" (आपश्रौ २.१६.५) इत्यादिनिगदपाठ आर्षेयवरणम् । निगदावसाने 'विष्णुशर्मा मानुषः' इत्यादिनामोच्चारणं होतृवरणम् ॥ बर्हिर्नामकं चतुर्थं प्रयाजं निषेधति-- " अपबर्हिषः प्रयाजान् यजति । प्रजा वै बर्हिः। प्रजा एव मृत्योरुत्सृजति" (तैब्रा १.६.९) इति ॥ चोदकप्राप्तावाज्यभागौ प्रशंसति--" आज्यभागौ यजति । यज्ञस्यैव चक्षुषी नान्तरेति" (तैब्रा १.६.९) इति ॥ हविष्प्रचारकाले प्राचीनावीतं विधत्ते-" प्राचीनावीती सोमं यजति । पितृदेवत्या हि । एषाऽऽहुतिः” (तैब्रा १.६.९) इति ॥ चतुरवदानमपवदितुं विधत्ते--"पञ्चकृत्वोऽवद्यति । पञ्च ह्येता देवताः । द्वे पुरोनुवाक्ये । याज्या देवता वषट्कारः । ता एवं प्रीणाति" (तैब्रा १.६.९)इति॥ " त्वꣳ सोम प्र चिकितः" (ऋसं १.९१.१, तैसं २.६.१२), " त्वया हि नः पितरः" (ऋसं ९.९६.११, तैसं २.६.१२ ) इत्युभे पुरोनुवाक्ये। " त्वꣳ सोम पितृभिः संविदानः" (ऋसं ८.४८.१३, तैसं २.६.१२) इत्येका याज्या। पितृमान् सोमो देवता वषट्कारः। ता एताः पञ्च देवता उच्यन्ते ॥ एकैकदेवतार्थं त्रिषु हविःष्वविच्छिन्नावदानं विधत्ते-"संततमवद्यति । ऋतूनाꣳ संतत्यै" (तैब्रा १.६.९) इति । तदाहाऽऽपस्तम्बः-" जुह्वामुपस्तीर्य सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति । सकृत् पुरोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य" (आपश्रौ ८.१५.८-९) इति ॥ द्वयोः पुरोनुवाक्ययोरेकस्या याज्यायाश्च विधिं मनसि निधाय प्रशंसति-" प्रैवैभ्यः पूर्वया पुरोनुवाक्ययाऽऽह । प्रणयति द्वितीयया । गमयति याज्यया। तृतीये वा इतो लोके पितरः। अह्न एवैनां पूर्वया पुरोनुवाक्ययाऽत्यानयति । रात्रियै द्वितीयया । ऐवैनान् याज्यया गमयति " (तैब्रा १.६.९) इति । " त्वꣳ सोम प्र चिकितः" इत्यनया पूर्वया पितृभ्यो हविः प्रकर्षेण कथितवान् भवति । " त्वया हि नः पितरः" इत्यनया द्वितीयया पितॄन् प्रति हविर्नयति । " त्वꣳ सोम पितृभिः” इत्यनया याज्यया तद्धविः पितॄन् गमयति । पितॄणां तृतीयलोकवर्तित्वादत्र मन्त्रत्रित्वं युक्तम् । किं च त्रिभिर्मन्त्रैः क्रमेणाह्नो रात्र्याश्च पितॄनानीय हविः प्रति तानागमयत्येव ॥ दैवेषु हविःषु वेदेरुत्तरतः उपविश्यावदाय दक्षिणामुखो वेदिमतिक्रम्योदङ्मुखस्तिष्ठञ्जुहोति । अत्र तु तद्वैपरीत्यं सूत्रकार आह-" दक्षिणतोऽवदायाभिघार्योदङतिक्रम्य दक्षिणामुखस्तिष्ठन् " (आपश्रौ ८.१५:१०) इति ॥ तदेतद्विधत्ते-" दक्षिणतोऽवदाय । उदङतिक्रामति व्यावृत्त्यै" (तैब्रा १.६.९) इति ॥ 'आ श्रावयास्तु श्रौषड्वौषट् ' इति मन्त्रत्रयमपवदितुं क्रमेण विधत्ते- “आ स्वधेत्याश्रावयति । अस्तु स्वधेति प्रत्याश्रावयति । स्वधा नम इति वषट्करोति । स्वधाकारो हि पितृणाम् ” (तैब्रा १.६.९) इति । पितॄन् प्रति यद्वक्तव्यं तस्य सर्वस्य स्वधाकारो वाचकः । अत आश्रावयेत्यादिशब्दान्न ब्रूते । तस्मात् स्वधाकारः पितॄणां प्रियः ॥ विधिवाक्ये पाठादेव प्राप्तं प्रचारक्रमं प्रशंसति-" सोममग्रे यजति । सोमप्रयाजा हि पितरः। सोमं पितृमन्तं यजति । संवत्सरो वै सोमः पितृमान् । संवत्सरमेव तद्यजति । पितॄन् बर्हिषदो यजति । ये वै यज्वानः । ते पितरो बर्हिषदः । तानेव तद्यजति । पितॄनग्निष्वात्तान् यजति । ये वा अयज्वानो गृहमेधिनः ।


-मेतत् ते तत ये च त्वामन्वेतत् ते पितामह* *प्रपितामह ये च
त्वामन्वत्र पितरो यथाभागं मन्दध्वꣳ
एतत् । ते। तत । ये । च । त्वाम् । अन्विति । एतत् । ते । पितामह । प्रपितामहेति प्र-पितामह ।
ये । च । त्वाम् । अन्विति । अत्र । पितरः । यथाभागमिति यथा-भागम् । मन्दध्वम् ॥
ते पितरोऽग्निष्वात्ताः । तानेव तद्यजति " (तैब्रा १.६.९) इति । सोमः प्रथमं यष्टव्यो येषां पितॄणां ते सोमप्रयाजाः। पितृस्वामित्वेन तस्य प्राथम्यं युक्तम् । संवत्सरत्वं तु सोमस्य पूर्वमेवोक्तम् । इह लोके यज्ञं कृत्वा पितृलोकं प्राप्ता बर्हिषदः । इह यज्ञरहिता गृहमेधिनो ये गृहस्थास्ते पितृलोकं प्राप्याग्निष्वात्ता
इत्युच्यन्ते ॥ स्विष्टकृत्संज्ञकां देवतामपवदितुं विधत्ते-"अग्निं कव्यवाहनं यजति । य एव पितृणामग्निः । तमेव तद्यजति । अथो यथाऽग्निꣳ स्विष्टकृतं यजति । तादृगेव तत् " (तैब्रा १.६.९) इति ।
पित्र्यं हविः कव्यं तद्वहतीति कव्यवाहनः। अत एवाऽन्यत्र श्रूयते-“त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा असुराणाम् " (तैसं २.५.८) इति ॥ एतदिति ॥ मुख्यब्राह्मणे पैतृकाणि त्रीणि हवींषि विधाय 'एतत्ते तत' इत्याद्येकादश मन्त्रा आम्नाताः। तत्र विनियोगमाहाऽऽपस्तम्बः- " हविःशेषान् संप्लोम्नाय पिण्डान् कृत्वा तिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यामपरस्यामिति । एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्" (आपश्रौ ८.१६.६) इति । संप्लोम्नाय सम्यङ्मर्दनेनैकीकृत्य । पाठस्तु-' एतत्ते तत ये च त्वामन्वेतत्ते पितामह प्रपितामह ये च त्वामनु' इति ॥ तत हे पितः, ते तुभ्यम् एतत् पिण्डीकृतमन्नं दत्तं, ये च अन्ये त्वाम् अनु वर्तन्ते तेभ्योऽप्येतद्दत्तम् । मध्यममन्त्रे 'ये च त्वामनु'
इत्यनुषङ्गः । प्रपितामहमन्त्रे 'एतत्ते' इत्यनुषङ्गः ॥ विधत्ते-“एतत्ते तत ये च त्वामनु इति तिसृषु स्रक्तीषु निदधाति । तस्मादातृतीयात् पुरुषान्नाम निगृह्णन्ति । एतावन्तो हीज्यन्ते" (तैब्रा १.६.९) इति । यस्मात् मन्त्रेषु ‘तत, पितामह, प्रपितामह' इत्येवं साधारणशब्दनिर्देशः कृतस्तस्माल्लोकेऽपि आ तृतीयात् पुरुषात् प्रपितामहपर्यन्तं संबन्धविशेषेणैव व्यवहरन्ति न तु तदीयं देवदत्तविष्णुशर्मादिनामोच्चारयन्ति । यस्मात् पार्वणश्राद्धेषु पित्रादयस्त्रय एव पूज्यन्ते न तूपरितनास्तस्मादत्रापि त्रयाणां निर्देशो युक्तः ॥
अत्रेति ॥ कल्प:-" अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य सुसंदृशं त्वा वयमित्यैन्द्र्यर्चाऽऽहवनीयमुपतिष्ठन्ते" (आपश्रौ ८.१६.८) इति । हे पितरः, अत्र स्रक्तिगतपिण्डेषु स्वस्वभागमनतिक्रम्य हृष्टा भवत ॥ मन्दध्वमिति पदस्याभिप्राय व्याचष्टे-“अत्र पितरो यथाभागं मन्दध्वमित्याह । हृीका हि पितरः " (तैब्रा १.६.९) इति । यस्मात् पितरो लज्जाशीलास्तस्मात् स्वस्वभागादूर्ध्वं लज्जां वारयितुं विस्रम्भेण मन्दध्वमित्युच्यते ॥ विधत्ते-“ उदञ्चो निष्क्रामन्ति । एषा वै मनुष्याणां दिक् । स्वामेव तद्दिशमनु निष्क्रामन्ति " (तैब्रा १.६.९) इति । पितृत्वदशायां दक्षिणा दिक् प्राप्ता । ततः पूर्वं मनुष्यदशायामुत्तरा दिगेव परिशिष्यते ॥
सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि ।
प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशाꣳ अनु। योजा न्विन्द्र ते हरी (१)॥ सुसंदृशमिति सु-संदृशम् । त्वा । वयम् । मघवन्निति मघ-वन् । मन्दिषीमहि । प्रेति । नूनम् । पूर्णवन्धुर इति पूर्ण वन्धुरः । स्तुतः । यासि । वशान् । अनु ॥
योजा । नु । इन्द्र । ते । हरी इति (१)॥

सुसंदृशमिति ॥ आहवनीयोपस्थानमन्त्रपाठस्तु--'सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशाꣳ अनु । योजा न्विन्द्र ते हरी' इति ॥ हे मघवन् , सुसंदृशं सुष्ठु कटाक्षवीक्षणेनास्मान् पश्यन्तं त्वां 'मन्दिषीमहि "वयं तर्पयामः । त्वमप्यस्मद्दत्तैर्हविर्भिः 'पूर्णवन्धुरः परिपूरितरथपृष्ठोऽस्माभिः स्तुतः सन् वशान् अभीष्टान् देशाननुलक्ष्य नूनं प्र यासि प्रायेणाऽऽगमिष्यसि । हे इन्द्र, ते हरी तवाश्वौ योजा नु रथे नियुक्तौ हि ॥ विधत्त-" आहवनीयमुपतिष्ठन्ते । न्येवास्मै
तद्ध्नुवते । यत्सत्याहवनीये । अथान्यत्र चरन्ति " (तैब्रा १.६.९) इति । आहवनीये पुरोऽवस्थिते सति तमुपेक्ष्याथ तदाऽन्यत्र पैतृकवेदिमध्यस्थेऽग्नौ चरन्तीति यत्तेनास्मै निह्नुवत एनमाहवनीयमपलपन्त्येव तत्क्षमापणायोपस्थानमित्यर्थः ॥ उपस्थानस्यावधिं विधत्ते--" आ तमितोरुपतिष्ठन्ते । अग्निमेवोपद्रष्टारं कृत्वा । पितॄन्निरवदयन्ते" (तैब्रा १.६.९) इति । आ तमितोरा ग्लानेरनुच्छ्वासेन मन्त्रमुच्चारयता यावता कालेन निरोधरूपा ग्लानिर्भवति तावदुपस्थातव्यम् । तेनोपस्थानेनाग्निमेव साक्षिणं कृत्वा पितॄन् स्वभागप्रदानेन विसृष्टवन्तो भवन्ति ॥ मन्त्रगतस्य सुसंदृशमित्येतस्याभिप्रायं व्याचष्टे--" अन्तं वा एते प्राणानां गच्छन्ति । य आ तमितोरुपतिष्ठन्ते । सुसंदृशं त्वा वयमित्याह । प्राणो वै सुसंदृक् । प्राणमेवाऽऽत्मन् दधते" (तैब्रा १.६.९) इति । श्वासनिरोधेन ग्लानिं प्राप्तेषु कटाक्षनिरीक्षणं नाम प्राणनिरोधपरिहारः तदेतदभिप्रेत्य ' प्राणो वै सुसंदृक् ' इत्युच्यते । योऽयं परिहृतनिरोधः प्राणः, स एवैन्द्रस्य कटाक्षः।
'तं कुर्वन्तं त्वाम् ' इति मन्त्रे योजनीयम् ॥ योजेति पदस्याभिप्रायमाह--"योजा न्विन्द्र ते हरी इत्याह । प्राणमेव पुनरयुङ्क्त" (तैब्रा १.६.९) इति । यथा त्वदीयावश्वौ रथे युक्तावेवं प्राणमस्मासु योजयेत्यभिप्रायः॥
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती । योजा न्विन्द्र ते हरी ॥ ।
अक्षन् । अमीमदन्त । हि । अवेति । प्रियाः । अधूषत ॥ ॥
अस्तोषत । स्वभानव इति स्व-भानवः । विप्राः । नविष्ठया । मती ॥
। योजा । नु । इन्द्र । ते । हरी इति ॥

  अक्षन्निति ॥ कल्प:--" अथ गार्हपत्यमुपतिष्ठन्ते । अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्र ते हरी इति" (बौश्रौ ५.१५) इति ॥ अक्षन् पितरो हविरशितवन्तः । अमीमदन्त भृशं हृष्टाः हि यतः प्रियाः तनूः अव अधूषत हविर्भोजनसौकर्येण शिरःप्रभृत्यङ्गान्यकम्पयन्त । स्वभानवः वपुषि जनितेन स्वकीयेन तेजसा भासमाना विप्राः भोजनतृप्त्या ब्राह्मणसदृशाः सन्तः नविष्ठया मती अतिशयेन नूतनया बुद्ध्या अस्तोषत
 भृशमिष्टमेतदित्यादिवचनैः स्तुतिं कृतवन्तः । योजा इत्यादि व्याख्यातम् ॥ विधत्ते--" अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते" (तैब्रा १.६.९) इति ॥ ननु 'अक्षन्' इत्यादिमन्त्रः पितृप्रतिपादकः, उपस्थेयस्तु गार्हपत्य इति वैयधिकरण्यमाशङ्क्य मन्त्रस्यापेक्षितशेषपूरणेन वैयधिकरण्यपरिहारं श्रुतिरेव दर्शयति-- " अक्षन्नमीमदन्ताथ त्वोपतिष्ठामह इति वावैतदाह" (तैब्रा १.६.९) इति । पितरो भुक्तवन्तो हृष्टाश्च, अथ तदा साक्षिणं त्वामुपतिष्ठामह इत्येवं मन्त्रवाक्यमाह । मन्त्रस्थौ मघवन्निन्द्रेत्येतावपि शब्दावग्निपरत्वेन व्याख्येयौ । अन्नवान् परमैश्वर्ययुक्त इति तयोरर्थः॥
अक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितरः।
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।
अक्षन् । पितरः । अमीमदन्त । पितरः । अतीतृपन्त । पितरः । अमीमृजन्त । पितरः ॥ परेति । इत । पितरः । सोम्याः । गम्भीरैः । पथिभिरिति पथि-भिः । पूर्व्यैः ।।

अक्षन्निति ॥ कल्पः--" अथ प्राचीनावीतं कृत्वाऽन्वाहार्यपचनमभिप्रपद्यन्तेऽक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितर इति" (बौश्रौ ५.१५) इति ॥ अतीतृपन्त अस्मांश्च तर्पयन्तः। अमीमृजन्त अस्मान्छोधितवन्तः ॥ अत्र सूत्रकारः शाखान्तरमन्त्रमपि विनियुङ्क्ते-- "अमीमदन्त पितरः सोम्या इत्या तमितोरुपतिष्ठन्ते" (द्र. आपश्रौ १.९.५) इति ॥ तदेतदुपस्थानं विदधानः पूर्ववद्वैयधिकरण्यं परिहरति--"अमीमदन्त पितरः सोम्या इत्यभिप्रपद्यन्ते । अमीमदन्त पितरोऽथ त्वाऽभिप्रपद्यामह इति वावैतदाह " (तैब्रा १.६.९) इति ॥ परेतेति ॥ कल्प:--"परेत पितरः सोम्या इति प्रवाहण्या पितॄन् प्रवाहयति" (आपश्रौ १.१०.५) इति । पाठस्तु--' परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त्सुविदत्राꣳ अपीत

अथा पितॄन्सुविदत्राꣳ अपीत यमेन ये सधमादं मदन्ति ॥
मनो न्वा हुवामहे नाराशꣳसेन स्तोमेन पितॄणां च मन्मभिः ॥
  अथ । पितॄन् । सुविदत्रानिति सु-विदत्रान् । अपीति । इत ।
  यमेन । ये । सधमादमिति सध-मादम् । मदन्ति ॥
मनः। नु। एति। हुवामहे । नाराशꣳसेन । स्तोमेन । पितृणाम् । च । मन्मभिरिति मन्म-भिः॥
यमेन ये सधमादं मदन्ति इति ॥ हे सोम्याः पितरः, पथिभिः परेत परावृत्य गृहान् गच्छतेति । कीदृशैः पथिभिः ? गम्भीरैः सुलभान्नतोयैः "पूर्व्यैः पूर्वं कृतैः प्रहतैः । अथ तदा गृहान् गत्वा तस्मिन् पितृलोके यमेन साकं ये पितरः सधमादं सहस्थानस्थमादं यथा भवति तथा मदन्ति हृष्यन्ति तान् सुविदत्रान् सुष्ठु वेदितॄंश्चिरवासेन तत्रत्यवृत्तान्तज्ञान् पितॄन् अपि यूयम् इत प्राप्नुत ॥
मन इति ॥ कल्प:-" मनो न्वा हुवामह इति मनस्वतीभिरुपतिष्ठते" (आपश्रौ १.१०.४) इति । तिसृषु ऋक्षु प्रथमायाः पाठस्तु-'मनो न्वा हुवामहे नाराशꣳसेन स्तोमेन पितॄणां च मन्मभिः' इति ॥ नाराशंसेन मनुष्यप्रशंसायोग्येन स्तोमेन वाक्यसमूहेन पितॄणाम् अपि मन्मभिः मननीयैः वाक्यैः मनः पितृयज्ञानुष्ठानपरं चित्तं नु क्षिप्रम् आ हुवामहे आह्वयामः ॥

आ (२) न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यॆ दृशे ॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ।
एति (२) । नः । एतु । मनः । पुनः । क्रत्वे । दक्षाय । जीवसे ॥ ज्योक् । च । सूर्यम् । दृशे॥ पुनः । नः । पितरः । मनः । ददातु । दैव्यः । जनः ॥ जीवम् । व्रातम् । सचेमहि ॥
एति ॥ अथ द्वितीयामाह -'आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ' इति ॥ क्रत्वे कर्मानुष्ठानाय दक्षाय "तत्तत्सामर्थ्याय जीवसे जीवितुं ज्योक् चिरं सूर्यं दृशे द्रष्टुं च योग्यं मनः आगत्य नः अस्मान् पुनः एतु असकृत् प्राप्नोतु ॥
पुनरिति ॥ अथ तृतीयामाह-'पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि' इति ॥ हे पितरः, दैव्यः जनः देवसंबन्धिपुरुषसमूहः नः अस्माकं मनः कर्मानुष्ठानपरं चित्तं पुनः ददातु असकृत् प्रयच्छतु । वयमपि व्रातं संवत्सरसंघातरूपं जीवं जीवनं सचेमहि सेवेमहि ॥

यदन्तरिक्षं पृथिवीमुत द्यां यन्मान्तरं पितरं वा जिहिꣳसिम ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥
  [ हरी मन्मभिरा चतुश्चत्वारिꣳशच्च ]
यत् । अन्तरिक्षम् । पृथिवीम् । उत । द्याम् । यत् । मातरम् । पितरम् । वा । जिहिꣳसिम । अग्निः । मा । तस्मात् । एनसः । गार्हपत्य इति गार्ह-पत्यः । प्रेति । मुञ्चतु । . दुरितेति दुः-इता । यानि । चकृम । करोतु । माम् । अनेनसम् ॥ ५ ॥
[ मैसं १.१०.१,३; कासं ९.६ ; कपिसं ८.९ ; वासं ३.५१-५५]
यदिति॥ कल्पः--"यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते" (आपश्रौ १.१०.६) इति ॥ पाठस्तु--' यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ' इति ॥ पृथिव्यादीँल्लोकान्मनसा जिहिंसिम हिंसितुमिच्छेम यत् मातरं पितरं वा हिंसितुमिच्छेमेति यत् तस्मात् सर्वस्मात् एनसः गाईपत्यो मां प्र मुञ्चतु । अन्यान्यपि दुरितानि यानि चकृम तेभ्योऽपि मुञ्चतु । माम् अनेनसं सर्वपापरहितं करोतु ॥ यदुक्तमापस्तम्बेन- " उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति त्रिः प्रसव्यं वेदिं परिषिञ्चन् पर्येति" (आपश्रौ ८.१६.५) इति, तदेतद्विधत्ते-" अपः परिषिञ्चति । मार्जयत्येवैनान् । अथो तर्पयत्येव " (तैब्रा १.६.९) इति । एनान् पितॄन् ॥ तद्वेदनं प्रशंसति--"तृप्यति प्रजया पशुभिः । य एवं वेद" (तैब्रा १.६.९) इति ॥ चतुर्थप्रयाजवद्बर्हिर्नामकं प्रथमानूयाजं निषेधति--
" अपबर्हिषावनूयाजौ यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योरुत्सृजति " (तैब्रा १.६.९) इति । बर्हिर्यागवर्जनात् ॥ प्रयाजानूयाजान् प्रशंसति--" चतुरः प्रयाजान् यजति । द्वावनूयाजौ । षट् संपद्यन्ते । षड्वा ऋतवः। ऋतूनेव प्रीणाति" (तैब्रा १.६.९) इति । सूत्रकारो--" युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रेष्यति" (आपश्रौ २.५.१०) इति प्रैषानुसारेण गार्हपत्यसमीप उपविष्टायाः पत्न्याः पूर्णपात्रानयनपर्यन्तं यदन्वासनमवोचत् तच्च पत्नीसंयाजांश्च चोदकप्राप्तान् प्रतिषेधति--" न पत्न्यन्वास्ते । न संयाजयन्ति । यत्पत्न्यन्वासीत । यत्संयाजयेयुः । प्रमायुका स्यात् । तस्मान्नान्वास्ते । न संयाजयन्ति। पत्नियै गोपीथाय " (तैब्रा १.६.९) इति ॥
अत्र विनियोगसंग्रहः –
"एतत्त इति दत्ते त्रीन् वेद्याः कोणेषु पिण्डकान्।
ब्रूयुरत्रेत्युपस्थानं पूर्वस्याग्नेः सुसंदृशम् ॥ १॥
अक्षन्निति प्रतीचोऽग्नेस्तथाऽक्षन् दक्षिणानलम् ।
परेतेति प्रवाह्याथ मनआद्यैरुपस्थितिः ॥
यत्पश्चिमाग्न्युपस्थानं मन्त्रा द्वादश वर्णिताः" ॥२॥ इति ।
अथ मीमांसा ॥ दशमाध्यायस्य द्वितीयपादे चिन्तितम्--
" नावघातोऽवघातो वा धानानां नाविनष्टये।
न नाशः क्रमबाधेऽतो नावघातोऽत्र बाध्यते ॥” (जैन्या १०.२.४२)॥
महापितृयज्ञे हविः किंचिच्छ्रूयते-" पितृभ्यो बर्हिषद्भ्यो धानाः " (तैसं १.८.५) इति । धानाशब्देन भृष्टं धान्यमभिधीयते। तासां धानानामवघाते सति सक्तुभावापत्तेर्धानात्वमेव विनश्येत् । अतस्तासामविनाशाय नास्त्यवघात इति पूर्वः पक्षः। 'धाना अवहन्तव्याः' इति ह्यत्र चोदकवाक्यम् , तस्मिंश्च वाक्ये भर्जनसंपादितं धानात्वं पूर्वभावि, पश्चाद्भावी त्ववघात इति क्रमः प्रतीयते । तं क्रमं बाधित्वा प्रथमतोऽवघाते सति नास्ति धानात्वनाशः। अवघातस्य पदार्थस्य बाधात् वरं तद्धर्मस्य क्रममात्रस्य बाधनम् । तस्मादवहन्तव्याः॥
एतदेवाधिकरणं वार्तिककारमतेनाऽऽरचयति--
" पेषणं नूतनं मन्थे प्राकृतं वा क्रमान्तरात् ।।
नूतनं प्राकृतं धर्ममात्रबाधस्य लाघवात् ॥” (जैन्या १०.२.४३)॥
महापितृयज्ञ एवं श्रूयते----" पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम् " (तैसं १.८.५) इति । मृतवत्सा धेनुरभिवान्या । द्रवद्रव्ये प्रक्षिप्य प्रथिताः सक्तवो मन्थः । तत्र यत्पेषणं तन्न प्राकृतम् । कुतः ? क्रमव्यत्यासात् । प्रकृतौ हि प्रथमतः पेषणं पश्चात् पुरोडाशश्रपणम् । अत्र तु प्रथमतः श्रपणेन धानाः संपाद्य पश्चात् सक्तुभावाय पेषणम् । तस्मान्नूतनमिति प्राप्ते ब्रूमः--चोदकप्राप्तप्राकृतपेषणतत्क्रमयोरुभयोर्बाधे गौरवात् क्रममात्रं बाध्यम् । पेषणपदार्थस्तु स एवेति तद्धर्मा दृषन्मन्त्रा इत्यादयोऽत्र कर्तव्याः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके पञ्चमोऽनुवाकः ॥५॥

1.8.6

सायणभाष्यम्

प्रतिपूरुषमेककपालान्निर्वपत्येकमतिरिक्तं यावन्तो गृह्याः स्मस्तेभ्यः कमकरं पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छैक
प्रतिपूरुषमिति प्रति–पूरुषम् । एककपालानित्येक-कपालान् । निरिति । वपति । एकम् । अतिरिक्तमित्यति-रिक्तम् । यावन्तः । गृह्याः । स्मः । तेभ्यः । कम् । अकरम् ।
पशूनाम् । शर्म । असि । शर्म । यजमानस्य । शर्म । मे । यच्छ । एकः ।
पञ्चमे पितृयज्ञोऽभिहितः । षष्ठे त्र्यम्बकपुरोडाशाः साकमेधशेषा उच्यन्ते ॥
प्रतिपूरुषमिति ॥ तान् विधत्ते- 'प्रतिपूरुषमेककपालान्निर्वपत्येकमतिरिक्तम् ' इति ॥ तद्विधिं प्रशंसति-- "प्रतिपूरुषमेककपालान्निर्वपति । जाता एव प्रजा रुद्रान्निरवदयते । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा रुद्रान्निरवदयते" (तैब्रा १.६.१०) इति। करम्भवाक्यवत् नैर्ऋतवाक्यवच्च व्याख्येयम् ॥
यावन्त इति ॥ मुख्यविधिसंनिधौ ‘यावन्तः' इत्यादय एकादश मन्त्राः आम्नाताः ॥ कल्पः-" यावन्तो गृह्याः स्मस्तेभ्यः कमकरमिति निरुप्यमाणेषु यजमानो जपति" (आपश्रौ ८.१७.२) इति ॥ गृहे भवा मनुष्याः गृह्याः, ते वयं यावन्तः इह स्थिताः तेभ्यः सर्वेभ्यः कं सुखम् अकरम् अकार्षम् ॥ श्रपितेषु पुरोडाशेषु चोदकप्राप्तमभिघारणं निषेधति- “ नाभिघारयति । यदभिधारयेत् ।
अन्तरवचारिणꣳ रुद्रं कुर्यात् " (तैब्रा १.६.१०) इति । रुद्रमनिष्टकारिणं क्रूरदेवम् । अन्तरवचारिणं गृहस्यान्तःप्रविश्यास्मानवरोद्धुं चरन्तम् ॥
पशूनामिति ॥ कल्पः--" तानभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यामासाद्य पशूनाꣳ शर्मासीति मूते समावपति' (आपश्रौ ८.१७.५) इति ॥ कर्षकैर्व्रीह्यादिबीजानि संग्रहीतुं तृणकटादिना पुटबन्धनं क्रियते तदिदं मूतशब्देनोच्यते ॥ पाठस्तु--'पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ' इति ॥ हे मूत, भक्ष्यैस्तृणादिभिर्बीजैश्चोपेतत्वात् 'पशूनां शर्म असि सुखप्रदमसि । अतो यजमानस्य मे अध्वर्योश्च सुखं यच्छ ॥


एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष
एव । रुद्रः । न। द्वितीयाय । तस्थे । आखुः । ते । रुद्र । पशुः । तम् । जुषस्व ।
एक इति ॥ कल्पः--" एक एव रुद्रो न द्वितीयाय तस्थ इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति । उत्तरपूर्वमवान्तरदेशं गत्वा" (आपश्रौ ८.१७.८-९) इति ॥ रुद्रः जगति एकः एव अस्ति । द्वितीयाय न तस्थे । द्वितीयो रुद्रो न कोऽप्यवस्थितः ॥ विधत्ते--" एकोल्मुकेन यन्ति । तद्धि रुद्रस्य भागधेयम् । इमां दिशं यन्ति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते" (तैब्रा १.६.१०) इति ॥
 आखुरिति ॥ कल्पः--" आखुस्ते रुद्र पशुरित्याखूत्कर एकं पुरोडाशमुपवपत्यसौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन् यदि न द्विष्यात् आखुस्ते पशुरिति ब्रूयात् " (आपश्रौ ८.१७.९-११) इति । आखूत्करो मूषकैर्बिलादुद्धृतः पांसुराशिः । पाठस्तु--' आखुस्ते रुद्र पशुस्तं जुषस्व' इति ॥ हे रुद्र, मूषकस्ते प्रियः पशुः अत: तं सेवस्व ॥ विधत्ते-“रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत । असौ ते पशुरिति निर्दिशेद्यं द्विष्यात् । यमेव द्वेष्टि । तमस्मै पशुं निर्दिशति । यदि न द्विष्यात् । आखुस्ते पशुरिति ब्रूयात् । न ग्राम्यान् पशून् हिनस्ति । नाऽऽरण्यान् ” (तैब्रा १.६.१०) इति । ( अपशुकायै ) आहुत्यै नातिष्ठत पशुरहितामाहुतिं नाङ्गीकरोतीत्यर्थः । यं द्विष्यात् तम् ‘असौ ' इति नामग्रहणेन निर्दिशेत् । तथा सति द्वेष्यमस्मै समर्पयत्येव ॥

एष ते रुद्र भागः सह स्वस्राऽम्बिकया तं जुषस्व भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजꣳ सुभेषजं (१) यथाऽसति । सुगं मेषाय मेष्या
एषः । ते । रुद्र । भागः । सह । स्वस्रा । अम्बिकया । तम् । जुषस्व । भेषजम् । गवे । अश्वाय । पुरुषाय । भेषजम् । अथो इति । अस्मभ्यमित्यस्मभ्यम् । भेषजम् । सुभेषजमिति सु-भेषजम् (१)। यथा । असति । सुगमिति सु-गम् । मेषाय । मेष्यै ।।
एष इति ॥ कल्प:--" चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य सर्वेषां पुरोडाशानामुत्तरार्धात् सकृत् सकृदवदायावदाय मध्यमेनान्तिमेन वा पलाशपर्णेन जुहोत्येष ते रुद्र भागः सह स्वस्राऽम्बिकया तं जुषस्व स्वाहेति" (आपश्रौ ८.१७.१२-८.१८.१) इति । अत्र स्वाहाकारोऽध्याहृतः । हे रुद्र, एषः अवत्तः पुरोडाशानामंशस्तवावदीयमानः भागः तं भागं, स्वस्रा भगिनीवद्धितकारिण्याऽम्बिकया पार्वत्या सह जुषस्व सेवस्व ॥ विधत्ते--" चतुष्पथे जुहोति । एष वा अग्नीनां पड्वीशो नाम । अग्निवत्येव जुहोति । मध्यमेन पर्णेन जुहोति । स्रुग्घ्येषा । अथो खलु । अन्तमेनैव होतव्यम् । अन्तत एव रुद्र निरवदयते" (तैब्रा १.६.१०) इति । अग्नीनां पड्वीशः “पादवेप्रशस्थानम् । यत्राग्नयः पुनः पुनः संचारेण प्रविशन्ति तादृश एवैष चतुष्पथः । अतस्तत्र होमेनाग्निवत्येव देशे हुतं भवति । पलाशशाखायां यानि त्रीणि पर्णानि तत्र मध्यमं पर्णं प्रशस्ततया स्रुग्रूपम् । वामदक्षिणपार्श्वस्थयोरन्यतरेण होमेन रुद्रो यागभूमेः अन्तान्निष्कासितो भवति ॥' सह स्वस्राम्बिकया' इत्यस्य मन्त्रभागस्य तात्पर्यं व्याचष्टे---" एष ते रुद्र भागः सह स्वस्राम्बिकयेत्याह । शरद्वा अस्याम्बिका स्वसा । तया वा एष हिनस्ति । यꣳ हिनस्ति । तयैवैनꣳ सह शमयति" (तैब्रा १.६.१०) इति । शरत्कालो हि पीनसज्वराद्युत्पादनेन हिंसकस्तद्वदियम् अम्बिकापि हिंसिका । ततः शरदित्युच्यते । एष रुद्रस्तयैव सहायभूतया प्राणिनं हिनस्ति । अतस्तया सह पुरोडाशभागसेवया तुष्ट्या तयैव सहैवैनं रुद्रं शमयति । हिंसारहितं करोति ॥
भेषजमिति ॥ कल्पः---" भेषजं गवे सुभेषजमित्येताभ्यां चतुष्पथमग्निं परि षिञ्चति " (आपश्रौ ८.१८.१) इति । पाठस्तु- भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजꣳ सुभेषजं यथाऽसति । सुगं मेषाय मेष्यै ' इति ॥ ' भेषजम् ' 'सुभेषजम् ' इत्येतौ मन्त्रयोरादी। हे रुद्र, गवे अस्मदीयायै गोजात्यै भेषजम् आरोग्यं कुरु । एवमन्यत्र । तात्कालिकं रोगोपशमनमात्यन्तिकं वा सुभेषजं तत् यथा असति यथा भवति तथा कुरु । मेषो वाहकः । मेषी दोग्ध्री। तयोः सुगं सुष्ठु गमनं रोगराहित्येन संचरणं यथा भवति तथा कुरु ॥ गवाश्वादिशब्दैः पश्वादयः सर्वेऽप्युपलक्ष्यन्त इत्याह – “भेषजं गव इत्याह । यावन्त एव ग्राम्याः पशवः । तेभ्यो भेषजं करोति " (तैब्रा १.६.१०) इति ॥
अवाम्ब रुद्रमदिमह्यव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद्यथा नो वस्यसः
करद्यथा नः पशुमतः करद्यथा नो व्यवसाययात् ॥
अवेति । अम्ब । रुद्रम् । अदिमहि । अवेति । देवम् । त्र्यम्बकमिति त्रि–अम्बकम् । यथा । नः । श्रेयसः । करत् । यथा । नः । वस्यसः । करत् । यथा । नः ।
पशुमत इति पशु-मतः । करत् । यथा । नः । व्यवसाययादिति वि-अवसाययात् ॥

अवेति ॥ कल्पः-“ अवाम्ब रुद्रमदिमहीति यजमानो जपति " (आपश्रौ ८.१८.१) इति ॥ पाठस्तु--' अवाम्ब रुद्रमदिमह्यव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद्यथा नो वस्यसः करद्यथा नः पशुमतः करद्यथा नो व्यवसाययात्' इति । हे अम्ब पार्वति, रुद्रम् उद्दिश्य अव अदिमहि पुरोडाशावदानमकार्ष्म । त्रीण्यम्बकानि नेत्राणि यस्यासौ त्र्यम्बकस्तमुद्दिश्य अव अदिमहि । आदरार्थं पुनर्वचनम् । किमर्थमवदानं कृतमित्युच्यते । असौ रुद्रः यथा नः अस्मान् श्रेयसः अध्ययनादिभिः श्रेष्ठान् करत् करोति, वस्यसः वसुमत्तमान् यथा करोति, पशुमतः गवाश्वादियुक्तान् यथा करोति, व्यवसाययाद्व्यवसाययति शास्त्रार्थनिश्चययुक्तान् यथा करोति तदर्थमवदानं कृतम् । 'यथा नः श्रेयसः' इत्याद्यभिधानात् मन्त्रस्याऽऽशी:परत्वं दर्शयति--" अवाम्ब रुद्रमदिमहीत्याह । आशिषमेवैतामाशास्ते " (तैब्रा १.६.१०) इति ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
त्र्यम्बकमिति त्रि-अम्बकम् । यजामहे । सुगन्धिमिति सु-गन्धिम् । पुष्टिवर्धनमिति पुष्टि-वर्धनम् ।
उर्वारुकम् । इव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् ॥

त्र्यम्बकमिति ॥ कल्पः-- "त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं पर्येति" (आपश्रौ ८.१८.२) इति । पाठस्तु-‘त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ' इति ॥ शोभनः शरीरगन्धः पुण्यगन्धो वा यस्यासौ सुगन्धिः। " यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति" (तैआ १०.९) इति श्रुतेः। पुष्टिं शरीरधनादिविषयां वर्धयतीति पुष्टिवर्धनस्तादृशं त्र्यम्बकं यजामहे पूजयामः । लोके यथोर्वारुकफलानि पक्वानि बन्धनात् वृन्तात् स्वयमेव मुच्यन्ते तद्वदहं त्र्यम्बकप्रसादेन मृत्योः मुक्षीय मुक्तो भूयासम् । अमृतात् चिरजीवनात् स्वर्गादेर्वा मा मुक्षीय ॥ चतुर्थपादार्थे मन्त्रस्य तात्पर्यातिशयं दर्शयति--

एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीह्यवततधन्वा
पिनाकहस्तः कृत्तिवासाः ॥६॥
[सुभेषजमिहि त्रीणि च ]
एषः । ते । रुद्र । भागः । तम् । जुषस्व । तेन । अवसेन । परः । मूजवत इति मूज-वतः । अतीति । इहि । अवततधन्वेत्यवतत-धन्वा । पिनाकहस्त इति पिनाक-हस्तः । कृत्तिवासा इति कृत्ति-वासाः ॥ ६॥
[ मैसं १.१०.४ ; कासं ९.७ ; कपिसं ८.१० ; वासं ३.५७-६१ ]
" त्र्यम्बकं यजामह इत्याह । मृत्योर्मुक्षीय माऽमृतादिति वावैतदाह" (तैब्रा १.६.१०) इति । यजमानः ' यजामहे ' इति यदाह, एतद्वचनं मृत्योर्मुक्षीय इत्येवाऽऽह, मोचन एव तात्पर्यं तच्छेषत्वेन अन्यदित्यर्थः ॥ यदुक्तमापस्तम्बेन--" ऊर्ध्वान् पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भेगः स्थ भगस्य वो लिप्सीयेत्यपादायैतेनैव कल्पेन त्रिः समावपेयुः" (आपश्रौ ८.१८.४) इति । तदेतत्सर्वमभिप्रेत्य सर्वेषां पुरुषाणां हस्ते स्थितस्य पुरोडाशस्योत्क्षेपणं विधत्ते-" उत्किरन्ति । भगस्य लीप्सन्ते" (तैब्रा १.६.१०) इति । यदेतत् पिण्डानामुपरि क्षेपणं तेन सौभाग्याभिमानिनो भगनामकस्य देवस्य सकाशादेतान् पुरोडाशाँल्लब्धुमिच्छन्ति । अत एवोत्क्षिप्तः पुनरञ्जलौ पतति ॥
एष इति ॥ कल्प:-" तान् मूते समावपन्ति मूतयोर्मूतेषु वैष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोर्वृक्षेषु वा। अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वाऽवधाय" (आपश्रौ ८.१८.७-९) इति । पाठस्तु- 'एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो । मूजवतोऽतीहि' इति । हे रुद्र, एषः वृक्षादौ सज्यमानः पुरोडाशसंघस्तव भागः तं सेवस्व । अवसेन पाथेयरूपतया तव रक्षकेणानेन भागेन युक्तः मूजवतः एतन्नामकत्वेन प्रसिद्धात् पर्वतात् परः परभागे वर्तमानः अतीहि अतिक्रम्य गच्छ ॥ विधत्ते-" मूते कृत्वा सजन्ति । यथा जनं यतेऽवसं करोति । तादृगेव तत्" (तैब्रा १.६.१०) इति । यथा लोके दूरदेशवर्तिनं बन्धुजनं प्रति गच्छते पुरुषायावसं रक्षकं पाथेयं करोति तद्वत् वृक्षाग्रे ३"पुरोडाशसञ्जनं तादृगेव भवति ॥ मन्त्रे भागनिर्देशो रुद्रस्य निःशेषेण विसर्जनार्थं इति दर्शयति--" एष ते रुद्र भाग इत्याह निरवत्त्यै " (तैब्रा १.६.१०) इति ॥
अवततधन्वेति ॥ कल्पः-" अवततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति " (आपश्रौ ८.१८.९) इति । प्राणायामत्रयं कुर्वन्तीत्यर्थः । ओमित्यनेन वाक्यशेषः पूरितः । अस्मात् विरोधिनं पाप्मानं हन्तुमयं रुद्रः पिनाकनामकं धनुः हस्तेन धृत्वा अवततधन्वा ज्याकर्षणेन विस्तारितधनुष्कः कृत्तिवासाः चर्मवसनः ॐ भवतु। अथवाऽस्मद्विषयेऽवततधन्वा आरोपितमौर्वीकधनुर्युक्तो भवतु ॥ चतुष्पथप्रत्यागमनादीन् क्रमेण विधत्ते-" अप्रतीक्षमायन्ति । अपः परिषिञ्चति । रुद्रस्यान्तर्हित्यै। प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये त्र्यम्बकैश्चरन्ति । आदित्यं चरुं पुनरेत्य निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति " (तैब्रा १.६.१०) इति ॥
अत्र विनियोगसंग्रहः--
"स्वामी यावन्त इत्याह पशू मूते समावपेत् ।।
एक इत्युल्मुकं नीत्वाऽऽखुस्त आखूत्करे हविः ॥१॥
क्षिपेदेषोऽर्धहोमः स्याद्भे सुभे परिषिञ्चति ।
अवाम्बेति जपेत् स्वामी त्र्यम्बकं परियन्ति ते ॥२॥
एषोऽवस्थाप्य तच्छेषान्मूते बध्नाति शाखिनि ।
अवत श्वासनियमो मन्त्रा एकादश स्मृताः ॥३॥ इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥