Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                

Shakambhary Ashtakam

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Shri ShAkambhari Ashtakam

श्रीशाकम्भर्यष्टकम्

शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि-


र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः ।
वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा
चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा ॥ १॥
देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा
सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता ।
वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला
वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २॥
ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता
नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा ।
भेरीशङ्खक्ष्मृदङ्गक्ष्घोषमुदिता शूलिप्रिया चेश्वरी
माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा ॥ ३॥
वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी
मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी ।
यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका
विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा ॥ ४॥
श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे
पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी ।
त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ५॥
श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं
वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम्।
नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां
वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ६॥

1
श्रीशाकम्भर्यष्टकम्

नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं


साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम्।
गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ७॥
द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः
शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी ।
मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ८॥
शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान्।
स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात्॥ ९॥
इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम्॥

Proofread by Sunder Hattangadi, NA

Shri ShAkambhari Ashtakam


pdf was typeset on August 18, 2018

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like